गङ्गायाः पश्चिमात् कूलाद्यावदावन्तिकान् जनान् ।
पश्चिमान् पुष्करारण्यमुत्तरेण च वैदिकम् ॥
अत्रैव दारुणं कर्म कुर्वन् हि परिवाधते ।
शस्त्रदुर्भिक्षमरकैः क्वचिदन्यैरुपद्रवैः ॥
स तथा दारुणं कर्म कृत्वा वै सुमहाद्युतिः ।
लोकं चैवाखिलं सोऽथ संपीड्य स निवर्त्तते ॥
आढका आढकाः प्रस्थं धृत्वाऽर्घं सुमहत् तदा ।
कम्पयित्वा महीं कत्स्नां चलकेतुर्निवर्त्तते ॥
अतः परममृतजस्य जलकेतोरुदयः । यथाऽऽह वृद्धगर्गः ।
चलकेतोरतीते तु यथावत् फलदर्शने ।
अमृतेयोऽपरः श्रीमान् जलकेतुः प्रदृश्यते ॥
उत्थानसमये चास्य निमित्तान्युपधारयेत् ।
स्निग्धगम्भीरमधुरा वाचः शृण्वन्ति सर्वतः ॥
मृगाणां पक्षिणां चैव वन्यानां सन्ध्ययोर्द्वयोः ।
एतैर्निमित्तैर्विज्ञेयः प्रजानां भावनः शुभः ॥
जलकेतोरिह श्रीमानुदयः शास्त्रकोविदः ।
जलकेतुलक्षणं वराहसंहितायाम् ।
जलकेतुरपि च पश्चात् स्निग्धः शिखयाऽपरेण चोन्नतया ।
नव मासान् स सुभिक्षं करोति शान्ति च लोकस्य ॥
पराशरस्तु ।
अथ जलकेतुः पैजामहस्य चलकेतोर्नवमासावशिष्टे कर्मणि कृतं प्रवर्त्तयति । पश्चिमेनोदितः स्निग्धः सुजाततारः पश्चिमाभिनतशिखः स नवमासाभ्यन्तरे क्षेमसुभिक्षारोग्याणि प्रजाभ्यो धत्ते। अन्यग्रहकृतानां चाशुभानां व्याघाताय - इति ।