पृष्ठम्:अद्भुतसागरः.djvu/१९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७९
केत्वद्भुतावर्त्तः ।

पराशरस्तु

 अथ पैतामहश्चलकेतुः । पञ्चदशवर्षशतं प्रोष्योदितः पश्चिमेनाङ्गुलिपर्वमात्रां शिखां दक्षिणाभिनतां कृत्वा कलिकेतोश्चारान्ते नभस्त्रिभागमनुचरन् यथायथा चोत्तरेण व्रजति तथातथा शूलाग्राकारां शिखां दर्शयन् ब्राह्मनक्षत्रमुपसृज्यात्मना[१] ध्रुवं ब्रह्मराशिं सप्तर्षींन् स्पृशन् नभसोऽर्धमात्रं दक्षिणमनुक्रम्यास्तं व्रजति । यः स्ववर्गे दारुणकर्मा स्ववर्गप्राप्तत्वादेवं कृत्स्नमभिहिनस्ति । लोकमपि वा भूमिं कम्पयित्वा दशमासान् मध्यदेशे भूयिष्ठं जनपदमवशेषं कुरुते । अन्येष्वपि च क्वचिच्छत्रुदुर्भिक्षव्याधिमरकभयैः क्लिश्नात्यष्टादशमासान्- इति ।
वृद्धगर्गः ।

 पश्चिमेनाङ्गुलीमात्रां शिखां परमदारुणाम् ।
 दक्षिणाभिनतां कृत्वा चलकेतुः प्रदृश्यते ॥
 यथायथा दर्शयति त्रिभागं नभसश्चरन् ।
 तथातथा शिखा चास्य सुदीर्घाऽत्युपजायते ॥
 सुदीर्घां शूलसदृशीं शिखां कृत्वा सुदारुणाम् ।
 धूपयेदथ नक्षत्रं ब्राह्मं पैतामहं शिखी ॥
 धूपयेदथ नक्षत्रमेकं द्वे त्रीणि वा पुनः ।
 स ब्रह्महृदयं स्पृष्ट्वा ध्रुवं सप्तर्षिभिः सहः ॥
 दिशं वैश्रवणाक्रान्तामेवं विपरिवर्त्तते ।
 स चार्धमेव नभशः परिक्रम्य प्रदक्षिणम् ॥
 सप्तर्षिभिः प्रतिहतस्ततोऽस्तमुपगच्छति ।
 स्ववर्गे दारुणं कर्म कुरुते स महाग्रहः ॥


  1. मनाक् इति अ. ।