पृष्ठम्:अद्भुतसागरः.djvu/१९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७६
अद्भुतसागरे

अथास्योदये पूर्वरूपाण्याह वृद्धगर्गः ।

 पूर्वरूपाणि चाग्नेये रौद्रे चाऽपि निशामय ।

 अपसव्यानि सर्वाणि न तु कश्चित् प्रदक्षिणः ॥
 सधूमा दारुणाकारा ज्वलदङ्गारसप्रभाः ।
 ताराः पतन्ति गगनान्निर्घातोल्का दिशो दश ॥
 एतैरेतादृशौर्घौरैः पूर्वरूपैः सुदारुणैः ।
 केतोरुदय आचष्टे कलिरन्य उपस्थितः ॥

कलिकेतुलक्षणं वराहसंहितायाम् ।

 प्राग्वैश्वानरमार्गे शूलाभः श्यावरूक्षताम्रार्चिः ।
 नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः ॥

रौद्रः केतुः ।
तथा च पराशरः ।
 अथ दक्षयज्ञे रुद्रक्रोधोद्भवः कलिकेतुस्त्रीणि वर्षशतानि नव मासान् प्रोप्योदयते । पूर्वेण वैश्वानरपथेऽमृतजस्य मणिकेतोश्चारान्ते श्यावरूक्षताम्रारूणां शूलाग्राकारसदृशीं शिखां कृत्वा नभसस्त्रिभागचारी शस्त्रभयरोगदुर्भिक्षानावृष्टिमरकैभर्विद्रावयन् दिशान्ते दृश्यते । यावन्मासान् दृश्यते तावद्वर्षाणि त्रिभागशेषां प्रजां कृत्वाऽर्घं च शारदधान्यस्याष्टाढकं व्रजति-इति ।

वृद्धगर्गस्तु ।

 ज्येष्ठामूलानुराधासु या वीथी संप्रकीर्त्तिता ।
 तां वीथीं समुपारुह्य केतुः संक्रीडते भृशम् ॥
 दक्षिणाभिनतां कृत्वा शिखां घोरां भयङ्करीम् ।
 शूलाग्रसदृशीं तीक्ष्णां श्यावताम्रारुणप्रभाम् ॥
 पूर्वेणोदयते चैष नक्षत्राण्युपधूपयन् ।