पृष्ठम्:अद्भुतसागरः.djvu/१८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६७
कत्वद्भुतावर्त्तः ।

मारीचिकश्यपललाटजाः । त्रयो विभावसुजाः । चतुर्दशं मध्यमाने समुद्रे सोमेन सह सम्भूताः । धूमोद्भव एकः । एकस्तु ब्रह्मकोपजः- इति ।

 वृद्धगर्गस्त्वौरसा द्वादशादित्यसम्भवा एकादश केतवो भवन्ति । रुद्रक्रोधजाश्चेकादशेति ।

तद्यथा ।

 मृत्योर्निःश्वासजास्तेषां केतवः षोडश स्मृताः ।
 एकादश च विज्ञेया द्वादशादित्यसम्भवाः ॥
 दक्षयजे तु रुद्रस्य क्रोधादन्ये विनिःसृताः ।
 एकादशैते विख्याताः सप्त पैतामहाः स्मृताः ॥
 ऋषेरुद्दालकस्यापि पुत्रा दश च पञ्च च ।
 ते च यौवनसंवृद्धाः श्वेतकेतुत्वमागताः ॥
 तथा प्रजापतेर्हासात् केतवः पञ्च निस्सृताः ।
 षोडशैकश्च मारीचिकश्यपस्य ललाटजाः ॥
 अग्निपुत्रास्त्रयस्तेषां केतवस्तिग्मतेजसः ।
 सप्त पञ्च च द्वौ चाब्धेर्मथ्यमाने तदाऽमृते ॥
 सोमेन सह सम्भूताः केतवो मध्यतः स्मृताः ।
 अन्तकस्योग्ररूपस्य क्रोधादेको विनिस्सृतः ॥
 धूमकेतुरिति ख्यातो ब्रह्मकोपात् तथाऽपरः ।

एतेषामेकादशजातीयानामेकोत्तरशतकेतूनां प्रत्येकानां नामान्याह वृद्धगर्गः ।

 अतः परं प्रवक्ष्यामि केतूनां नामनिश्चयम् ।
 विस्तरेण यथा शास्त्रं ब्रुवतो मे निबोधत ॥

तत्र मृत्युपुत्राः ।

 दरस्तब्धः श्रमो मोहः श्यावः सर्वोऽत्ययस्तथा ।
 पराशरस्तमो वृष्टिः शोषणोऽतिप्रभञ्जकः ॥