पृष्ठम्:अद्भुतसागरः.djvu/१८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६६
अद्भुतसागरे

 पूर्वतोऽभ्युदिता वा स्युर्नीचैरुत्तरतस्तथा ॥
 याम्याद्यभ्युदिता वा स्युर्ह्रस्वा स्नेहपरिप्लुताः ।
 सर्व एव तु विज्ञेया ग्रहा मन्दफलोदयाः ॥

अथ फलनिर्णयः ।

 सर्वेषां पैतृकं रूपं प्रजाभाग्योद्भवं भवेत् ।
 तत्कर्मजन्ममाहात्म्यशीलाभिजनमेव च ॥
 तद्रूपाँस्तद्गुणाँश्चापि तद्देशाँस्तत्परिग्रहान् ।
 सर्व एव क्षुधारोगमृत्युशस्त्राग्नितस्करैः ॥
 पशुशस्योपघातैश्च हन्युरन्यैश्च कारणैः ।
 धूपनात् स्पर्शनात् स्थानादुदयादस्तसम्भवात् ॥
 हन्युः पञ्चविधाः सर्वे केतवो नात्र संशयः ।
 शुक्रादीनां च ये पुत्रा ग्रहाणां परिकीर्त्तिताः ॥
 तेषां बीजानि जानीयात् पितृभ्योऽभ्यधिकानि च ।
 मृत्योः कालस्य सूर्यस्य ब्रह्मणस्त्रयम्बकस्य च ॥
 भौमस्य राहोरग्नेश्च ग्रहा वायोश्च दारुणाः ।
 प्रजापतेरधर्मस्य सोमस्य वरुणस्य च ॥
 दिशां च विदिशां पुत्रा विज्ञेया मृदुदाणाः ।
 कश्यपस्य च मारीचेरुद्दालकऋषेस्तथा ॥
 पुत्रा मन्दफला ज्ञेयाः सौम्या अमृतसम्भवाः ।

अथैकादशजातय एकेात्तरशतकेतवो भवन्तीति पराशरादीनां मतम् ।
तथा च पराशरः ।
 शतमेकोत्तरं केतूनां भवति तेषां षोडशमृत्युनिःश्वासजाः । द्वादशादित्यसम्भवाः । दश दक्षयज्ञविलयने रुद्रक्रोधजाः । षट् पैतामहाः । पञ्चदश क्रुद्धोद्दालकसुताः । पञ्च प्रजापतेर्हासजा: । सप्तदश