पृष्ठम्:अद्भुतसागरः.djvu/१८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६५
केत्वद्भुतावर्त्तः ।

अथ मृत्युनिःश्वासजा: ।

 मृत्योर्निःश्वासजाश्चान्ये ज्ञेयाः षोडश केतवः ।
 कूष्माण्डविम्बवत्संस्था निर्दिष्टा दक्षिणे पथि ॥

अथादित्यजाः ।

 एकादशैव विज्ञेया द्वादशादित्यसम्भवाः ।
 सूर्यचन्द्रनिरीक्ष्यास्ते तेजोधातुमया ग्रहाः ॥

अथ रुद्रकोधजाः ।

 दक्षयज्ञे तु रुद्रस्य क्रोधादन्ये तु निःसृताः ।
 भीमरूपा दशैकश्च जालाङ्कुशधरास्तथा ॥

अथ पैतामहाः ।

 सप्त पैतामहाश्चान्ये निर्याता जर्जरा ग्रहाः ।
 शिखाः सृजन्तो विनताततशुक्लपटोपमाः ॥

अथौद्दालकिसुताः ।

 श्वेताः केतव इत्यन्ये व्याख्याता दश पञ्च च ।
 उद्दालकऋषेः पुत्रास्ते नीचैर्भ्रान्तमण्डलाः ॥
 ते तु श्वेतशिखाः सर्वे सौम्याकारास्तनुप्रभाः ।

अथामृतजाः ।

 चतुर्दशेन्दुना सार्धं मथ्यमाने पुराऽमृते ।
 केतवः कुन्दपुष्पाभाः क्षीरोदार्णवसम्भवाः ॥
 विरश्मयस्ते विशिखा ह्रस्वकाया निरर्चिषः ।
 रौप्यकुन्दनिभाः सौम्या ग्रहास्ते सिततेजसः ॥

अथ ब्रह्मकोपज:

 ब्रह्मकोपभवस्त्वेको विश्वात्मा सबलो ग्रहः ।
 चतुर्युगान्ते लोकानामुदयस्तस्य दृश्यते ॥

अथ नाभसाः ।

 नक्षत्रपथमुत्सृज्य नाभसाः पार्श्वचारिणः ।