पृष्ठम्:अद्भुतसागरः.djvu/१७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५४
अद्भुतसागरे

 ऊर्मिकेतुर्यदा दृश्यस्तदा ह्युदकजं भयम् ।
 श्वेतकेतुर्ययदा दृश्यः श्वेतास्थिं कुरुते महीम् ॥
 तदा मानुषमांसानि भक्षयन्तीह मानुषाः ।
 न माता मन्यते पुत्रं पुत्रो वा मातरं तथा ॥
 न पिता पुत्रसम्भूतं स्नेहं संप्रतिपद्यते ।
 न पतिर्मन्यते नारी न बन्धुर्बान्धवं तथा ॥
 क्षुद्भयार्त्तं जगत् कृत्स्नं चक्रवद्भ्रमते तदा ।
 धूमकेतुर्यदा दृश्यस्तस्य वक्ष्यामि लक्षणम् ॥
 स हन्ति तारया योधान् राजानं मन्त्रिणं तथा ।
 स हन्ति शिखया देशान् सराष्ट्रजनकाननान् ॥
 रेवत्याश्वयुजं चैव नक्षत्रं यमदैवतम् ।
 केतवो ह्यत्र दृश्यन्ते यमपुत्रास्त्रयोदश ॥
 यमपुत्रेषु दृष्टेषु लोकानां संक्षयो ध्रुवम् ।
 स्थावरा मानुषाः सर्वे पशवः पक्षिणस्तथा ॥
 चतुर्विधानां भूतानां संक्षयो जायते तदा ।

तथा च वराहसंहितायाम् ।

 आग्नेयरुद्रजौद्दालकिकाश्यपमृत्युसोमजाश्चैव ।
 क्षितितनयवरुणपुत्रा यमजाताः केतवश्वोक्ताः ॥
 आग्नेये नृपमरणं क्षुद्भयमतुलं वदन्ति रौद्रेषु ।
 औद्दालकिजे शस्यक्षमे कश्यपसुते त्वनावृष्टिः ॥
 क्षुच्छस्त्रमनारोग्यं यमतनये शस्यमुत्तमं सौम्ये ।
 माहेये नृपमरणं वरुणसुते क्षुद्भयं च शस्त्रं च[१]


  1. नैतानि वराहवचनानि अ. पुस्तके उपलभ्यन्ते प्रायो वटकणिकायां भवेयुः ।