पृष्ठम्:अद्भुतसागरः.djvu/१६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४७
शनैश्चराद्भुतावर्त्तः ।

 अन्यत्रार्द्रेति । आर्द्रासावित्रयस्यानिलानां तीक्ष्णसम्भ्रमः । लम्बमाने पुरस्तादेव तेन भाग्यस्य चोग्रं वाऽस्य चोग्रं तदुत्तरेणापि गमनमशोभनम् । एवमशोभनमध्यपतित्वाच्छ्रवणस्य तदुत्तरगमनमप्यशोभनमिति ।

वृद्धगर्गः ।

 नक्षत्रपृष्ठतः सौरो यदा प्रत्यक् प्रलम्बते ।
 तदा भवति दुर्भिक्षमुत्तरेण तु संभ्रमः ॥
 लम्बमाने पुरस्तात् तु भयं भवति शस्त्रतः ।
 व्याधिस्तु सुमहायासो जायते दक्षिणाश्रये ॥

बहुनामायासं करोतीति सुमहायासाः ।

 अधस्ताद्राजमणरमुपरिष्टात् पराजयः ।

अथोदयास्तफलं विष्णुधर्मोत्तरे ।

 रौद्रे हस्ते तथा चाप्ये आहिर्बुध्न्ये शनैश्वरः ।
 यदोदयं प्रपद्येत तदा नश्यन्ति पार्थिवाः ॥

वृद्धगर्गस्तु ।

 द्वयोर्नक्षत्रयोर्मध्ये यदोदेति शनैश्वरः ।
 दिशानां मध्यदेशानां प्रत्यन्तानवमर्दति ॥
 विरश्मिश्‍चोदितो हन्याद्दुष्टान् सर्वान् सुजातिषु ।
 उदितो वा पुनः सौरो वैश्वानरपथे स्थितः ॥
 पुरपर्वतदुर्गाणि कुधान्यानि च मर्दति ।

पराशरस्तु ।

 तस्याष्टाविंशतिवार्षिकः सप्तविंशतिनक्षत्रचारः । त्रिमार्गस्तत्र । प्रवासक्रमात् सप्तविंशतिस्त्रिंशदधिकोना चाहामन्यथा त्वहितः ।

 अस्यार्थ: । प्रवासोऽस्तमयः । तत्समयोऽहां त्रिंशत् । अधिकोना एकेनाधिका ऊना वेति ।

अथ वक्रफलं वराहसंहितायाम् ।

 प्रागद्द्वारेषु चरन् रविपुत्रो नक्षत्रेषु करोति च वक्रम् |
 दुर्भिक्षं कुरुते भयमुग्रं मित्राणां च विरोधमवृष्टिम् ॥