पृष्ठम्:अद्भुतसागरः.djvu/१६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४३
अद्भुतसागरे

पाखण्डिनिवासिनः । प्राक्प्रौष्ठपदायां द्रविडकैवर्त्तावन्तिचोलपाण्ड्यसिंहलमहेन्द्रनगनिवासिनः । उत्तरायां स्त्रीहिरण्यनिचयतस्करशमीधान्यनदनदीयानयुग्यकरान् ।

वराहसंहितायाम् ।

 रेवत्यां राजभृतः क्रौञ्चद्वीपाश्रिताः शरच्छस्यम् ।
 शवराश्च निपीड्यन्ते यवनाश्च शनैश्चरे चरति ॥

पराशरस्तु ।

रेवत्यां शरच्छस्यराजभृतकशवरवनवासिक्रौञ्चद्वीपनिवासिनः ।

अथ नक्षत्रचारविशेषफलं वराहसंहितायाम् ।

 एकर्क्षचरो वर्षाच्छुभप्रदो द्विभगतिश्च मध्यफलः ।
 त्रिभगतिरधमफलकरो दिनकरतनयो विनिर्दिष्टः ॥

वृद्धगर्गस्तु ।

 एकर्क्षचारी वर्षात् त स्निग्धो मन्दगतिग्रहः ।
 क्षेमशस्यसुभिक्षाणामाख्याता द्विगुणं चरन् ॥
 प्रजाहितानां भावानां विदध्यान्मध्यमं गुणम् ।
 त्रिनक्षत्रगतं चारं यदा सौरो निषेविते ॥
 तदा भयान्युदीर्यन्ते धूमकेतुरुदेति वा ।
 यदि चोर्ध्वं सनक्षत्रं सौरः प्रत्यवसर्पति ॥
 समस्तानां भयं विद्यात् तदा चित्रं च वर्षति ।

अथ मार्गफलम् । तत्र वृद्धगर्गः ।

 कुर्यात् प्रजानां सौभिक्षमुत्तरं मार्गमास्थितः ।
 दुर्भिक्षं चाग्निमूच्छीं च दक्षिणं मार्गमास्थितः ॥
 चरन् कृत्तिकारोहिण्योरुत्तरे चापि दारुणः ।

पराशरस्तु ।

सममन्यैर्मार्गफलमन्यत्रार्द्रासावित्रश्रवणयाम्यानिलभाग्येभ्यः ।