पृष्ठम्:अद्भुतसागरः.djvu/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४५
शनैश्चराद्भुतावर्त्तः ।

पराशरस्तु ।

 ऐन्द्रे जातिगणकुलश्रेणीज्येष्ठनृपनृपतिसत्कृतपुरोहितान्[१] मूले काशिकोशलपाञ्चालमूलफलौषधीयोधान् ।

वराहसंहितायांम् ।

 आप्येऽङ्गबङ्गकोशलगिरिव्रजा मगधपुण्ड्रमिथिलाश्च ।
 उपतापं यान्ति जनाः वसन्ति ये ताम्रलिप्त्यां च ॥

पराशरस्तु ।

पूर्वाषाढास्वङ्गमगधबङ्गपुण्ड्रकोशलमिथिलागिरिव्रजतासिनः ।

वराहसंहितायाम् ।

 विश्वेश्वरेऽर्कपुत्रश्वरन् दशार्णान् निहन्ति यवनाँश्च ।
 उज्जयिनीं शवरान् पारियात्रकान् कुन्तिभोजाँश्च ॥

पराशरस्तु ।

 उत्तरास्ववन्तिशवरकुन्तिभोजदशार्णयवनपारियात्रिकान् ।

वराहसंहितायाम् ।

 श्रवणे तु गजाधिकृतान् विप्राग्र्यभिषक्पुरोहितकलिङ्गान् ।
 वसुभे मगधेशजयो वृद्धिश्च धनेष्वधिकृतानाम् ॥

पराशरस्तु ।
 वैष्णवेऽग्निवेशकलिङ्गेशविद्विद्विप्राश्रमभिषग्राजाधिकृतपुरोहितान् । श्रविष्ठासु मगधाधिपतिविजयाय विविधवसुनिचयाय तदधिकृतानां देशाँश्च निपीडयति ।
वराहसंहितायाम् ।

 साजे शतभिषजि भिषक् कविशौण्डिकपण्यनीतिवार्त्ताँश्च ।
 आहिर्बुध्न्ये नद्यो यानकराः स्त्रीहिरण्यं न ॥

पराशरस्तु ।

शतभिषजि भिषङ्मद्यसुरासवक्रयविक्रयवनितोपजीविदस्यु-


  1. पीडयन्तीति शेषः ।