पृष्ठम्:अद्भुतसागरः.djvu/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४४
अद्भुतसागरे

 बन्धक्यः कौशलका मालाकाराश्च पीड्यन्ते ॥

पराशरस्तु ।
 हस्ते हस्तिहस्तिग्राहस्तेनभिषग्रजकसूचिकनापितमालाकारबन्धकीकोशलाः ।
वराहसंहितायाम् ।

 चित्रास्थे प्रमदाजनलेखकचित्रज्ञचित्रभाण्डानि ।
 स्वातौ मागधचरदूतसूतपोतप्लवनटाद्याः ॥

पराशरस्तु ।
 त्वाष्ट्रे प्रमदालेखकचित्रकरचित्रभाण्डानि । स्वातौ दूतचरसूतमागधप्लवकनटनर्त्तक-गायकवादकपोतयात्रिकाः ।
वराहसंहितायाम् ।

 ऐन्द्राग्नाख्ये त्रैगर्त्तचीनकौलूतकुङ्कुमं लाक्षा ।
 शस्यान्यथ माञ्जिष्ठं कौसुम्भं च क्षयं याति ॥

पराशरस्तु ।
 ऐन्द्राग्ने त्रिगर्त्तचीनकौलूतलाक्षाकुङ्कुमकुसुम्भमाञ्जिष्ठपीतकुसुमशस्यानि विग्रहकामाश्च ।
वराहसंहितायाम् ।

 मैत्रे कुलूततङ्गणखसकाश्मीराः समन्त्रिचक्रचराः ।
 उपतापं यान्ति च घाण्टिका विभेदश्च मित्राणाम् ॥

पराशरस्तु ।
 अनुराधासु खसतङ्गणकुलूतकाश्मीरसमचक्रिचरमन्त्रिघाण्टिकाः[१] । मित्रभेदं च विन्द्यान् ।
वराहसंहितायाम् ।

 ज्येष्ठासु नृपपुरोहितनृपसत्कृतशूरगणकुलश्रेण्यः ।
 मूले च काशिकोशलपाञ्चालफलौषधीयोधाः ॥


  1. आलोचन्ते इति पूर्वसम्बन्धः ।