पृष्ठम्:अद्भुतसागरः.djvu/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३०
अद्भुतसागरे

काश्यपः ।

 हस्ते प्राप्ते कौरवाणां पीडां चित्रकरेषु च ।
 जलस्य तु निरोधं वै कुर्यादेवं तु भार्गवः ॥
 सवृष्टिं कृपकृत्पीडां चित्राभेदं यदा व्रजेत् ।

वराहसंहितायाम् ।

 कौरवचित्रकराणां हस्ते पीडा जलस्य च निरोधः ।
 कूपकृदण्डजपीडा चित्रास्थे शोभना वृष्टिः ॥

काश्यपः ।

 स्वातिं स्थित्वा सुवृष्टिं च वणिङ्नाविकभीतिकृत् ।

वराहसंहितायां तु स्वातिगतिमात्रेण फलमुक्तम् ।

 स्वातौ प्रभूतवृष्टिर्दूतवणिङ्नाविकान् स्पृशत्यनयः ।

काश्यपः ।

 विशाखायां सुवृष्टिश्च मैत्रे मैत्रं विकाश्यते ।
 ऐन्द्रे पौरविरोध: स्यान्मूले तु भिषजां भयम् ॥

वराहसंहितायां तु ।

 ऐन्द्राग्नेऽपि सुदृष्टिर्वणिजां न भयं विजानीयात् ।
 मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसंतापः ॥
 मौलिकभिषजां मूले त्रिष्वपि चैतेष्वनावृष्टिः ।

काश्यपः ।

 आषाढयोर्व्याधिभयं वैष्णवे श्रवणे रुजः ।
 धनिष्ठायां कर्मकृतां वारुणे शौण्डिकक्षयः ॥
 प्रौष्ठपादे व्याघ्रहिंसा आहिर्बुध्न्ये फलक्षयः ।
 पापिनां सनृपाणां च पौष्णे विद्यान्महाभयम् ॥

वराहसंहितायां तु ।

 आप्ये सलिलजपीडा विश्वेशे व्याधयः प्रकुप्यन्ति ।
 श्रवणे श्रवणव्याधिः पाखण्डभयं धनिष्ठासु ॥