पृष्ठम्:अद्भुतसागरः.djvu/१४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२९
भार्गवाद्भुतावर्त्तः ।

  [१]आर्द्रायां कलिङ्गजातान् कोशलाँश्च निपीडयेत् ॥
वराहसंहितायां तु ।

 सौम्योपगतो रसशस्यसंक्षयायोशनाः समादिष्टः ।
 आर्द्रागितस्तु कोशलकलिङ्गहा सलिलनिकरकरः ॥

काश्यपः ।

 पुनर्वसौ विदर्भाँश्च पीडयत्युशनाः शुभः ।
 पुष्ये तु वृष्टिमाख्याति पुष्टां शस्यविवृद्धये ॥

वराहसंहितायां तु ।

 अश्मकवैदर्भाणां पुनर्वसुस्थे सिते महाननयः ।
 पुष्ये पुष्टा वृष्टिर्विद्याधररणविमर्दश्च ॥

काश्यपः ।

 आश्लेषासु च सर्पाणां पीडां कुर्याद्भृगोः सुतः ।
 मघायां तु गते घोरं भयं विन्द्यात् तु भार्गवे ॥
 सलिलं च भवद्भूरि येन धात्री न दृश्यते ।

वराहसंहितायां तु ।

 आश्लेषासु भुजङ्गमदारुणपीडावहश्चरन् शुक्रः ।
 भिन्दन्मघां महामात्रदोषकृद्भूरिवृष्टिकरः ॥

काश्यपस्तु ।

 भाग्ये पुलिन्दशवरान् नाशयेत् सलिलं पतेत् ।
 आर्यम्णे तु भवेत् पीडा पाञ्चालकुरुजाङ्गले ॥
 सुवृष्टिश्च सुभिक्षश्च चरत्यस्मिन् भृगोः सुते ।

वराहसंहितायां तु ।

 भाग्ये शवरपुलिन्दप्रध्वंसकरोऽम्बुनिवहमोक्षाय |
 आर्यम्णे कुरुजाङ्गलपाञ्चालघ्नः सलिलदायी ॥


  1. इत: प्रभृतीनि सर्वाणि शुक्रनक्षत्रचारफलबोधकानि काश्यपवचनानि अ. पुस्तकेऽन्यथा दृश्यन्ते । द्रष्टव्यम् अ. पृ. २२३।