पृष्ठम्:अद्भुतसागरः.djvu/१४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२७
भार्गवाद्भुतावर्त्तः ।

 पिप्पल्यश्चन्दनं जातिरजाद्यामलकं[१] तथा ।
 गन्धपत्रं च लोध्रं च शुक्र एषां पतिः स्मृतः ॥

वराहसंहितायां तु ।

 तक्षशिलमार्त्तिकावतबहुगिरिगान्धारपुष्कलावतकाः ।
 प्रस्थलमालवकैकयदशार्णकोशीनरः शिवयः ॥
 ये च पिबन्ति वितस्तामैरावतीं चन्द्रभागसरितं च ।
 रथरजताकरकुञ्जरतुरगमहामात्रधनयुक्ताः ॥
 सुरभिकुसुमानुलेपनमणिवज्रविभूषणाम्बुरुहशय्याः ।
 वरतरुणयुवतिकामोपकरणमृष्टान्नमधुरभुजः ॥
 उद्यानसलिलकामुकयशःसुखौदार्यरूपसम्पन्नाः ।
 विद्वदमात्यवणिग्जनपट[२]कृच्चित्राण्डजास्त्रिफलाः ॥
 कौशेयकटुक[३] कम्बलपत्रौर्णिकलोध्रुगन्धपत्राणि ।[४]
 जातीफलागुरुवचापिप्पल्यश्चन्दनं च भृगोः ॥

वटकणिकायां तु ।

 देशा भृगोस्तक्षशिला वितस्ता गान्धारकाः पुष्कलमालवाश्च ।
 दशार्णकोशीनरचन्द्रभागाश्चैद्याश्च संप्रस्थलकैकयाख्याः ॥

अशुभसूचकभार्गवलक्षणमाह पराशरः ।

 श्यावनीलरूक्षकपिलरक्तध्वस्तदीनाल्पलोधसन्निभः शस्त्रवैरव्याध्यवर्षान्नक्षयकरः ।

अथ वर्णफलम् । तत्र वृद्धगर्गः ।

 सुवर्णरजताभश्च घृतमण्डनिभो महान् ।
 शुक्रो माञ्जिष्ठवर्णश्च दधिवर्णश्च वर्षकः ॥


  1. जातीफलमामलकम् इति अ ।
  2. घट इति अ..।
  3. पट्ट इति अ ।
  4. गन्धपत्रचोचानि इति अ । तत्र चोचं मलिनपत्रं नारिकेलं च इति भट्टोत्पलः ।