पृष्ठम्:अद्भुतसागरः.djvu/१४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२६
अद्भुतसागरे

वपुरच्छस्निग्धदीपकान्तिप्रकाशः प्रसन्नार्चिरणुरवनिपतिहितकरः प्रशान्तवैरदुर्भिक्षरोगावृष्टिश्च ।
अपि च ।

 कूटाङ्गारनिभः स्निग्धो मार्गस्थो रजतप्रभः ।
 भार्गवो विस्तृतो विश्वप्रजाभावकरः स्मृतः ॥

कूटाङ्गारनिभः सप्तलोहवर्णः ।
वराहसंहितायां तु ।

 दधिकुमुदशशाङ्ककान्तिभृत् स्फुटविकसन् किरणो वृहत्तनुः ।
 सुगतिरविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः ॥

येषामयं स्वामी तेषामेवम्भूतो विशेषेणाभ्युदयाय विपरीतो विशेषेण विपरीताय ।
भार्गवस्वामिकान्याह यवनेश्वरः ।

वज्रादिरत्नाकरगोसुतस्त्रीविवादगन्धाम्बरभूषणानाम् ।
सौभाग्यसौख्यश्रुतिसञ्चयानां प्रभुर्निधीनां धनिनां च शुक्रः ॥

काश्यपस्तु ।

 चन्द्रभागां वितस्तां च ऐरावतीं पिबन्ति ये ।
 पुष्कलावर्त्तकैकेया गान्धारं पुष्कलावतम् [१]
 तक्षशिला मालवका दर्शार्णा मौक्तिकं गिरिः ।
 धान्याढ्याः कुकुरा [२] । गावः प्रस्थापनविलेपने ॥

गिरिर्बहुगिरिर्नाम देशः ।

 सुरूपं सुभगोद्यानं कामुका: कामचारिणः ।
 पेशला मधुरा हृद्याः सलिलाशयजीविनः ॥
 तरुणा योषितः क्रीडा विदुषां जनगोष्ठिका ।
 चित्राण्डजाः कुशास्तरणपत्रोर्णं नालिकामलम् [३]


  1. प्रस्थलास्तथा इति अ.। पृष्ठलम्वतम् इति छ. ।
  2. कुञ्जरा इति अ
  3. चित्राण्डाजाश्च कोशेयं पत्रोर्णे काशिकौशलम् इति अ. ।