पृष्ठम्:अद्भुतसागरः.djvu/१३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११९
बृहस्पत्यद्भुतावर्त्तः ।

गर्गस्तु ।

 प्रौष्ठपादे वरं शस्यं विनश्यत्यपरं च यत् ।
 निष्पद्यते क्वचित् क्षेमं क्वचिदक्षेमकारकम् ॥

वरं शस्यं श्रेष्ठशस्यं सम्भवति । अपरं भावि तद्विनश्यतीति योजनम् ।
तथा च विष्णुधर्मोत्तरे ।

 प्रौष्ठपादद्वयोपगे जीवे वारुणगे तथा ।
 पूर्वशस्यप्रदं त्वाजं पश्चाद्धान्यविनाशकम् ॥

वराहसंहितायां तु ।

 भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्वशस्यं च ।
 न भवत्यपरं शस्यं क्वचित् सुभिक्षं क्वचिच्च भयम् ॥

वृद्धगर्गस्तु ।

 रेवतीं न प्रौष्ठपदं चरेद्यदि बृहस्पतिः ।
 प्रौष्ठपाद इति ज्ञेयो मध्यः संवत्सरो भवेत् ॥
 सम्पद्यते शस्यपूर्वमुत्तरं नोपपद्यते ।
 योगक्षेमो भवेन्मध्यो धान्यमुप्तार्धतां व्रजेत् ॥

भाद्रः ।
विष्णुधर्मोत्तरे ।

 पौष्णाश्वियाम्यगे जीवे वर्षं स्यादश्विदैवतम् ।
 सुवृष्टिक्षेमदं लोकं सर्वातङ्गविवर्जितम् ॥

वराहसंहितायां तु ।

 अश्वयुगब्देऽजस्त्रं पतति जलं प्रमुदिताः प्रजाः क्षेमः ।
 प्राणचयः प्राणभृतां सर्वेषामन्नबाहुल्यम् ॥

पराशरस्तु ।

 भवेच्छस्याम्बुजलजक्षेमश्चाश्वयुजः शिवः ।
 संवृत्तो वत्सरः श्रीमान् सर्वकामसुखावहः ॥