पृष्ठम्:अद्भुतसागरः.djvu/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११८
अद्भुतसागरे
 

वराहसंहितायाम् ।

 आषाढे जायन्ते शस्यानि क्वचिदवृष्टिरन्यत्र ।
 योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः ॥

गर्गस्तु ।

 दुर्भिक्षाक्षेमजनन आषाढोऽन्योन्यभेदकृत् ।
 भूपालयुद्धजननी मध्यमक्षेमकारकः ॥

वृद्धगर्गस्तु ।

 पूर्वोत्तरे च आषाढे चरेद्यदि बृहस्पतिः ।
 आषाढः स तु विज्ञेयस्तस्य संवत्सरोऽशुभः ॥
 मिथो भेदाः प्रवर्त्तन्ते बलक्षोभा भवन्ति च ।
 शारदं पच्यते धान्यं ग्रीष्मधान्यं न पच्यते ॥

आषाढः ।
विष्णुधर्मोत्तरे ।

 विष्णुवासवभस्थे तु वैष्णवं परिकोर्त्तितम् ।
 क्षेमसौभिक्षदं लोके पाखण्डपरिपीडनम् ॥

वराहसंहितायां तु ।

 श्रावणवर्षे क्षेमं सम्यक् शस्यानि पाकमुपयान्ति ।
 क्षुद्रा ये पाखण्डास्ते पीड्यन्ते च तद्भक्ताः ॥

गर्गस्तु ।

 श्रावणः शस्यसम्पन्नः क्षेमारोग्यविवर्धनः ।
 धान्यमाहार्घ्यमायाति सम्यग्वर्षति वासवः ॥
 क्षुद्राः पाखण्डिनः सर्वान् सद्भक्ताँश्चोपतापयेत् ।

वृद्धगर्गस्तु ।

 श्रावणादीनि च त्रीणि चरेद्यदि बृहस्पतिः ।
 श्रावणो नाम सोऽब्दः स्यात् क्षेमसौभिक्षपुष्टिमान् ॥

श्रावणः ।