पृष्ठम्:अद्भुतसागरः.djvu/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०४
अद्भुतसागरे

 उदपानयन्त्रगान्धर्वलेख्यमणिरागगन्धयुक्तिविदः ।
 आलेख्यशब्दगणितप्रसाधकायुष्यशिल्पज्ञाः ॥
 चरपुरुषकुहकजीवकशिशुकविशठसूचकाभिचाररताः ।
 दूतनपुंकहास्यज्ञभूततन्त्रेन्द्रजालज्ञाः ॥
 आवर्त्तिक[१] नटनर्त्तकघृततैलस्नेहतिक्तबीजानि ।
 व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य ॥

अथास्य नक्षत्रविशेषचारफलं वराहसंहितायाम् ।

 विचरन् श्रवणधनिष्ठाप्राजापत्येन्द्रवैश्वदेवानि ।
 मृद्गन् हिमकरतनयः करोत्यदृष्टिं सरोगभयाम् ॥

मृद्गन् निघ्नन् ।
तथा च काश्यपः ।

 सौम्यं विष्णुं धनिष्ठां च रोहिणीं विष्णुमेव च ।
 शशिजश्च यदा हन्ति प्रजा रोगैश्च पीड्यते ॥

वराहसंहितायाम् ।

 रौद्रादीनि मघान्तान्युपाश्रिते चन्द्रजे प्रजापीडा |
 शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः ॥

काश्यपस्तु ।

 रौद्रादीनि यदा पञ्च भेदितानि समन्ततः ।
 चन्द्रजेन तदा पीडा शश्वत् क्षुद्भव्याधिभिः ॥
 हस्तादिषु यदा षट्सु नक्षत्रेष्विन्दुजः स्थितः ।
 गवामशोभनः प्रोक्तः सुभिक्षं शस्यसम्पदः ॥

वराहसंहितायां तु ।

 हस्तादीनि चरन् षडृक्षाण्युपपीडयन् गवामशुभः ।
 स्नेहरसार्घविवृद्धिं करोति चोर्वी प्रभूतान्नाम् ॥


  1. आरक्षक इति अ.।