पृष्ठम्:अद्भुतसागरः.djvu/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०३
बुधाद्भुतावर्त्तः ।

 स्निग्धमूर्त्तिरलघुश्च हिताय व्यत्ययेन शुभकृच्छशिपुत्रः ॥

 शस्यको मणिर्नीलवर्ण: शस्याख्यो मणिः । येषामयं स्वामी तेषामेवंविधो विशेषेण हिताय विपरीतो विशेषेण विपरीताय ।
बुधस्वामिकान्याह यवनेश्वरः ।

  नानागुणद्रव्यविकल्पयुक्तिनैपुण्यशिल्पश्रुतिवेसराणाम् ।
 माहात्म्यमन्त्रार्थविदाब्दिकानां प्रभुर्बुधश्चैत्यवनस्पतीनाम् ॥

वटकणिकायां तु ।

बुधस्य सौराष्ट्रकभोजबङ्गा गङ्गाश्रिताश्चोत्तरकूलनद्यः ।
सिन्धोश्च मध्या मथुरापुरस्ताद्गोमन्तसिन्ध्वद्रिगुहाश्रिताश्च ॥

काश्यपस्तु ।

 चित्रकूटगिरी रम्यो हिमवान् कौशिकी तथा ।
 मथुरायाश्च पूर्वार्धं लोहित्यः सिन्धुरेव च ॥
 गाम्भीरिका च सरयू रथाख्या गण्डकी नदी ।
 गान्धर्वा लेख्यहाराश्च दर्दुराश्चोपकृत्रिमाः[१]
 विदेहाः सर्वजलजाः काम्बोजाश्च सुराष्ट्रिकाः ।
 गन्धयुक्तिविदो ये च सौगन्धिकप्रलेपकाः ॥
 सुवर्णरजतं रत्नमातङ्गतुरगादि यत् ।
 पौरा जनपदाः सौम्याः सोमपुत्रोऽधिपः स्मृतः ॥

वराहसंहितायाम् ।

 लोहित्यः सिन्धुनदः सरयूर्गाम्भीरिका रथाख्या च ।
 गङ्गाकौशिक्याद्याः सरितो वैदेहकाम्बोजाः ॥
 मथुरायाः पूर्वार्धं हिमवद्गोमन्तचित्रकूटस्थाः ।
 सौराष्ट्रसेतुजलमार्गपण्यविलपर्वताश्रयिणः ॥


  1. तथोदाराध कृत्रिमाः इति अ. ।