पृष्ठम्:अद्भुतसागरः.djvu/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९७
मङ्गलाद्भुतावत्तेः ।

अर्घकृदधिकमूल्यकृदित्यर्थः ।

 भित्त्वा मघा विशाखां भिन्दन् भौमः करोति दुर्भिक्षम् ।
 मरकं करोति घोरं यदि भित्वा रोहिणो याति ॥

वृद्धगर्गः ।

 वक्त्रकाले तु संप्राप्ते स्थूलो भवति लोहितः ।
 हर्षितश्चातिरक्तश्च ज्वलिताग्निशिखोपमः ॥

विष्णुधर्मोत्तरे ।

 गतागतं तदा कुर्यान्मघामध्येन लोहितः ।
 तदा भवत्यनावृष्टिः पाण्ड्यो राजा विनश्यति ॥

वराहसंहितायाम् ।

 मध्येन यदि मघानां गतागतं लोहितः करोति ततः ।
 पाण्ड्यो नृपो विनश्यति शस्त्रोद्योगाद्भयमनावृष्टिः ॥

भीष्मपर्वणि कुरुपाण्डवक्षयनिमित्तम् ।

 “वक्त्रानुवक्रं कृत्वा च श्रवणं यावकप्रभः ।
 ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः”[१]

वृद्धगर्गः ।

 यद्वारे कुरुते वक्रमनुवकं च लोहितः ।
 नक्षत्रसप्तजान् देशाँस्तद्वारं च निहन्ति सः ॥

 नाधोभात् सप्तजान् द्रुह्यान्न चाष्टादशतोऽधिकान् ।
 उदयर्क्षान्महीजस्य भवेद्वेक्रं कथंचन ॥

अथास्य पञ्च वक्त्राणि वराहसंहितायाम् ।

 उष्णमश्रुमुखं व्यालं लोहिताननमेव च ।
 निस्त्रिंशमुशलं चेति पञ्च वक्तकुजस्य तु ॥

तत्रोष्णमुखम् । तत्र गर्ग: [२]

 उदयात् सप्तमे कुर्यादष्टमे नवमेऽपि वा ।


  1. ३ अ. १८ श्लो, ।
  2. तत्र शङ्खः इति छ. ।