पृष्ठम्:अद्भुतसागरः.djvu/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३
राहोरद्भुतावर्त्तः ।

 श्रुतिसंहितास्मृतीनां भवति यथैक्यात् तदुक्तिरतः ॥
 राहुस्तच्छादयति प्रविशति यच्छुक्लपञ्चदश्यन्ते ।
 भूछायातमसीन्दोर्वरप्रसादात् कमलयोनेः”[१] । ॥

तथा च गर्गः ।
 तपःप्रवृत्तस्य राहोर्ब्रह्मा वरं ददौ पञ्चदश्यन्ते चन्द्रमुपसर्प- इति।
ब्रह्मसिद्धान्ते ।

 “चन्द्रोऽम्बुमयोऽधःस्थो यदग्निमयभास्करस्य मासान्ते ।
 छादयति शमिततापो राहुश्च्छादयदि तत्सवितुः"[२]

सूर्यसिद्धान्ते ।

 “तमोमयस्य तमसो रविरश्मिपलायिनः ।
 भूछाया चन्द्रविम्बं च स्थाने द्वे परिकल्पिते"[३]

ब्रह्मसिद्धान्ते ।

 भूछायाव्याससमः शशिकक्षायां स्थितः शशिग्रहणे ।
 राहुश्छादयतीन्दुं सूर्यग्रहणेऽर्कमिन्दुसमः ॥
 यत् तदधिकं तमोमयराहुव्यासस्य सूर्यदृष्टत्वात् ।
 नश्यति भूछायेन्द्वोर्व्याससमोऽस्माद्भवति राहुः ॥
 भूछाया नेन्दुमतो ग्रहणे छादयति नार्कमिन्दुर्वा ।
 तत्स्थस्तद्व्याससमो राहुश्छादयति शशिसूर्यौ"[४]

वीरभद्रः ।

 सिंहिकातनयस्यास्य राहोः पुच्छमुखादृते ।
 नान्यदस्त्युदरं बाहुपादादिकमिति श्रुतिः [५]


  1. ब्राह्मस्फुटसिद्धान्ते गोलाध्याये ३९-४४ श्लो.
  2. ब्राह्मस्फुटसिद्धान्ते गोलाध्याये ३९-४४ श्लो. ।
  3. ब्राह्मस्फुटसिद्धान्ते गोलाध्याये ४४ श्लो .।
  4. नाधुनिकसूर्यसिद्धान्तेऽस्योपलब्धिः ।
  5. ब्राह्मस्फुटसिद्धान्ते गोलाध्याये ४७-४८ श्लो. ।