पृष्ठम्:अद्भुतसागरः.djvu/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४
अद्भुतसागरे

वसिष्टः ।
 स्वर्भानु प्रत्यासन्नभगणार्धान्तरितः सूर्याचन्द्रमसौ मुखपुच्छाभ्यां गृह्णाति -इति ।

इति महाराजाधिराजनिश्शङ्कशङ्कर श्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे राहोरद्भुतावर्त्तः ।


अथ मङ्गलाद्भुतावर्त्तः ।

तत्र शुभसूचकमङ्गललक्षणमाह पराशरः ।
 वर्णरश्मिप्रमाणतेजोयुक्त उदग्मार्गगः स्नेहवान् सर्वलोकहिताय भवति चात्र।

 प्रदक्षिणगतिः कान्तः स्निग्धः स विपुलोऽमलः[१]
 तप्तकाञ्चनसंकाशो भवेल्लोकस्य वृद्धये ॥

प्रदक्षिणगतिर्ग्रहाणामुदग्गामी ।
वराहसंहितायां तु ।

 विपुलविमलमूर्त्तिः किंशुकाशोकवर्णः
  स्फुटरुचिरमयूखस्तप्तताम्रप्रभाभः ।
 विचरति यदि मार्गं चोत्तरं मेदिनीजः
   शुभकृदवनिपानां हार्दिदश्च प्रजानाम् ॥

 अत्र मध्यमार्गचारी मध्यमफल: । दक्षिणमार्गचारी भयद इत्यूहनीयम् ।
यथाऽऽह गर्गः ।

 याम्यादिपित्र्यनिधनं[२] नवर्क्षं मार्गमुत्तरम् ।
 भाग्यादितान्तं तु मध्यमं मार्गमुच्यते ॥
 आषाढपौष्णभान्तं तु दक्षिणं समुदाहृतम् ।


  1. कलसप्रभः इति अ ।
  2. याम्यादिपितृपर्यन्तम् इति अ.।