पृष्ठम्:अद्भुतसागरः.djvu/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५
राहोरद्भुतावर्त्तः ।

नादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या-इति ।
अथ विहितविशेषशान्तयो राहूत्पाताः । तत्रा पर्वग्रहणे वृद्धगर्गः ।

 अपर्वणि भयं यस्माद्ग्रहणं शशिसूर्ययोः ।

पराशरस्तु ।

 अपर्वण्युपरक्तः प्रजानाशाय ।

मयूरचित्रे ।

 अपर्वग्रहणे दस्युशस्त्रकोपा भवन्ति च ।
 वधो मुख्यस्य भूपस्य तथा राष्ट्रस्य जायते ॥

आरण्यककांण्डे खरादिवधनिमित्तम् ।

 “सकबन्धः सपरिघः स्वर्भानुश्च दिवाकरः ।
 जग्राह कालपर्यन्तमपर्वणि महाग्रहः"[१]

त्रयोदशीग्रहणे तु विशेषः । तथा च मुशलपर्वणि यदुकुलोत्सादननिमित्तम् ।

 “चतुर्दशीपञ्चदशीकृतेयं राहुणा पुनः ।
 प्राप्ते वै भारते युद्धे दृष्टा चाद्यक्षयाय नः"[२]

भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।

 “चतुर्दशों पञ्चदशों भूतपूर्वां च षोडशीम् ।
 चन्द्रसूर्यावुभौ ग्रस्तावेकपक्षे त्रयोदशीम्[३]
 अपर्वणि ग्रहणोभौ प्रजासंक्षपयिष्यतः”[४]

वृद्धगर्गस्तु ।

 दृश्येते च त्रयोदश्यां चन्द्रार्कौ ग्रहणं गतौ ।
 छत्राण्यनैकानि तदा मृज्यन्ते भूमिपक्षये ॥


  1. वाल्मीकीये २३ सर्गे ११-१२ श्लो. ।
    "कबन्धः परिधाभासो दृश्यते भास्करान्तिके ।
    जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः” ॥ इत्युपलभ्यते ।
  2. २ अ. १९ श्लो. ।
  3. ग्रस्तावेकमासो त्रयोदशीम् इति महाभारते उपलभ्यते ।
  4. ३ अ. ३२ श्लो. ।