पृष्ठम्:अद्भुतसागरः.djvu/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८४
अद्भुतसागरे

 यच्चाशुभं ग्रहणजं तत्सर्वं नाशमायाति ॥

अथोभयपक्षीयग्रहणफलं वटकणिकायाम् ।

 समरागमाय राहुर्यदि पक्षान्ते पुनर्दृश्यः ।

भार्गवीये ।

यदि च राहुरुभौ शशिभास्करौ ग्रसति पक्षमनन्तरगं ततः ।
पुरुषशोणितकर्दमवाहिनी भवति भूर्न च वर्षति वासवः ॥

एकस्मिन् मासे उभयपक्षीयग्रहणफलमेतत् ।
तथा च काश्यपः ।

 एकमासेऽर्कचन्द्राभ्यां ग्रहणं न प्रशस्यते ।
 परस्परवधं कुर्युः स्वयलक्षोभिता नृपाः ॥

वराहसंहितायां च ।

 यद्येकस्मिन् मासे ग्रहणं रविसोमयोस्तदा क्षितिपाः ।
 स्वबलक्षोभैः संक्षयमायान्त्यतिशस्त्रकोपं च ॥

मासभेदे तु फलमुक्तं भार्गवीये ।

 गृहीत्वा भास्करं पुर्वं गृह्णाति शशिनं यदि ।
 तत्र मासोत्तरं नाम आराध्यन्ते हि देवताः ॥

वराहसंहितायां तु ।

 अर्कग्रहात् तु शशिनो ग्रहणं यदि दृश्यते ततो विप्राः ।
 नैकऋतुफलभाजो भवन्ति मुदिताः प्रजाश्चैव ॥
 सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद्ग्रहोऽर्कस्य ।
 तत्रामयः प्रजानां दम्पत्योर्वैरमन्योन्यम् ॥

वृद्धगर्गपराशरौ ।

 यद्राहुचरितं प्रोक्तं चन्द्रग्रहणहेतुकम् ।
 तदेव सकलं सूर्ये वेदितव्यं शुभाशुभम् ॥

 अत्रानुक्तविशेषशान्तिषु राहूत्पातेषु रविग्रहणे रविराहुपूजापूर्विका चन्द्रग्रहणे चन्द्रराहुपूजापर्विका प्रभूतकनकान्नगोमहीदा-