पृष्ठम्:अद्भुतसागरः.djvu/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३
राहोरद्भुतावर्त्तः ।

 "सप्ताहन्तर्न शुभा ग्रहणनिवृत्तौ शुभा वृष्टिः"[१]

वृद्धगर्गपराशरौ तु।

 अथेन्द्रग्रहनिर्मुक्ते सप्ताहन्तर्भवेद्यदि ।
 पांशुवर्षोऽन्ननाशः स्यान्नीहारो रोगवृद्धये ॥
 नृपनाशाय भूकम्प उल्का मन्त्रिविपत्तये ।
 रोगाय परिवेषः स्याद्भयायैवाभ्रासंप्लवः ॥
 विद्युद्गर्भविनाशाय दिग्दाहश्चाग्निवृद्धये ।
 निर्घातेन्द्रधनुर्दण्डो दुर्भिक्षाय भयाय च ॥
 पवनः परुषो रूक्षचौरोपद्रवसूचकः ।

वराहसंहितायाम् ।

 मुक्ते सप्ताहान्तः पांशुनिपातोऽन्नशस्यसंक्षयं कुरुते ।
 नीहारो रोगभयं भूकम्पः प्रबलनृपमृत्युं च ॥
 उल्का मन्त्रिविनाशं नानावर्णाश्च भयमतुलम् ।
 स्तनितं गर्भविनाशं विद्युन्नृपदंष्ट्रिपरिपीडाम् ॥
 परिवेषो रुक्पीडां दिग्दाहो नृपभयं च साग्निभयम् ।
 रूक्षो वायुः प्रबलश्चौरसमुत्थं भयं धत्ते ॥
 निर्घातः सुरचापो दण्डश्च क्षुद्भयं सपरचक्रम् ।
 ग्रहयुद्धै नृपयुद्धं केतुश्च तदैव संदृष्टः ॥

वृद्धगर्गपराशरौ ।

 सर्वोपद्रवनाशः स्यात् सम्यग्वृष्टिर्भवेद्यदि ।

वराहसंहितायां तु ।

 अविकृतसलिलनिपातैः सप्ताहान्तः सुभिक्षमादेश्यम् ।


  1. अयं लोको वराहसंहितायां नोपलभ्यते । 'मुक्त सप्ताहान्तः' इत्यादिश्लोकटीकायां भट्टोत्पलेन स च समाससंहितायाः प्रमाणत्वेनाभिरक्षितः । एतदर्थं द्रष्टव्या अ. ६२ पृ. ९ पं. ।