पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९५ [अ०२. सू०२.] ५४२ अष्टादशं काण्डम् । अध। पितृन् । सुऽविदत्रान् । अपि । इहि । यमेन । ये । सधडमादम्। मदन्ति ॥ ११॥ प्रेतः संबोध्यते । हे पितृलोकं गच्छन् प्रेत सारमेयौ सरमा नाम दे- वशुनी तस्याः पुत्रौ । "स्त्रीभ्यो ढक्" । चतुरक्षौ चत्वा- रि अक्षीणि ययोः । एकैकस्य चतुरक्षत्वम् । "बहुव्रीही सक्थ्य- क्ष्णोः” इति षच् समासान्तः ।शबलो 1शबलवर्णौ । यद्वा ना- मधेयम एतत् । श्यामशबलसंज्ञकौ । शबलाविति द्विवचनेन श्यामोपि विवक्ष्यते । स्मर्यते हि । श्वानौ द्वौ श्यामशबलौ वैवस्वतकुलोद्भवौ। ताभ्यां बलिं प्रदास्यामि स्यातां मे तावहिंसकौ । इति । तौ श्वानौ साधुना समीचीनेन ऋजुना पथा मार्गेण अति द्रव अतीत्य गच्छ । अध अथ अनन्तरं सुविदत्रान् । विदत्रशब्दो धनवाची । सुधनान् शोभनहवीरूपान्नान् । यद्वा । वेत्तेः कत्रन् प्रत्ययः ।ज्ञा- नवाची विदत्रशब्दः । संज्ञानान् पितृन् अपेहि । अपशब्दः उपोपसर्ग- स्यार्थे । उपेहि । उपगच्छेत्यर्थः । यद्वा अपशब्दो वर्जनार्थः । अप- वृज्य मार्गा3सीनौ श्वानौ वर्जयित्वा पितृन् इहि गच्छ ।एतेर्लोटि रूपम्। ये पूर्वजाः पितरो यमेन पितृराजेन सधमादम सह मा. दनं तृप्तिर्यस्मिन् कर्मणि तत् सधमादं सह तृप्तिर्हर्षो वा यथा भवति तथा मदन्ति माद्यन्ति तान् इहीति संबन्धः । सध मादस्थ- योश्छन्दसि" इति सहस्य सधादेशः । मादयतेरेरजन्तो माद इति मा. धतेर्वा व्यात्ययेन घञ् ॥ द्वितीया ॥ यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा । ताभ्यौ राजन् परि धेह्येनं स्वस्यस्मा अनमीवं च धेहि ॥ १२ ॥ यौ । ते । श्वानौ । यम । रक्षितारौ । चतुःऽअक्षौ। पथिसदी इति पथिऽस- दी। नृडचक्षसा । Cr musenare. We separate the words with PĚ. २ CP चतुःऽअक्षौ । 18 शवलशवलवर्णी. 28षक for कत्रन्.38 मार्गसिनौ. एलोटि