पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" " " अथर्वसंहिताभाष्ये ताभ्याम् । राजन । परि । धेहि । एनम् । स्वस्ति । अस्मै । अनमीवम् । च । धेहि ॥ १२॥ यमरक्षितारौ यमो रक्षिता गोपायिता ययोः । "ऋतश्छन्दसि इति कबभावः । अन्तोदात्तप्रकरणे “त्रिचक्रादीनाम् उपसंख्यानम् इति अन्तोदातत्वम् । यद्वा यमशब्देन तत्स्वामिकं पुरम् उच्य- ते । यमपुरस्य पालयितारौ । कृदुत्तरपदप्रकृतिस्वरत्वेन अन्तोदा- त्तत्वम् । चतुरक्षौ व्याख्यातम् । पथिसदी पितृभिर्गनव्ये मार्गे सी- दन्तौ । x“छन्दसि वनसनरक्षिमथाम्" इति विहित इन् प्रत्ययः सदेरपि व्यत्ययेन भवति । नृचक्षसा 1नृचक्षसौ नृणां गन्तृणां द्र- ष्टारौ हे राजन् पितॄणां स्वामिन् ते त्वदीयौ यो श्वानौ वर्तेते ताभ्या श्वभ्याम् एनम अन्वादिष्टं प्रेतं परि धेहि । परिदेहीत्यर्थः । रक्षणार्थं दानं परिदानम् इत्युच्यते । किं च अस्मै त्वदीयं लोकं गच्छते [स्व- स्ति] । स्वस्तीत्यविनाशिनाम । अविनाशम् अनमीवम् अमीवो रोगः बाधा तद्रहितं स्थानं च धेहि विधेहि ॥ तृतीया ॥ उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनाँ अनु । तावस्मभ्य दृशये सूर्याय पुनर्दातामसुंमधेह भद्रम् ॥ १३ ॥ उरुऽनसौ। असुऽतृपौ । उदुम्बलौ । यमस्य । दूतौ । चरतः । जनान् । अनु । तौ। अस्मभ्यम् । दृशयै । सूर्याय । पुनः । दाताम् । असुम् । अद्य । इह । भद्रम् ॥१३॥ उरुणसौ विस्तीर्णनासिकौ । नासिकाशब्दस्य नस्भावः । सुप 2आकारः ।असुतृपौ प्राणिनाम् असुभिः माणैस्तृप्यन्तौ प्राणाप- हारकौ उदुम्बलौ । विस्तीर्णबलावित्यर्थः । पूर्वपदे वर्णोपजनश्छा- ·न्दसः। यमस्य दूतौ प्रेष्यौ जनान् जननवतः उत्पत्तिमतः प्राणि- नः [अनु] अनुलक्ष्य 3चरतः तेषां प्राणान् अपहर्तुं सर्वत्र संचरतः । 18' नृचक्षौ. 2 Sayana's text in s does not read उकणसा असु. 8. for परतः