पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

5 ९७ [अ०२. सू०२.] ५४२ अष्टादशं काण्डम् । तो दूतौ सूर्याय । "क्रियाग्रहणं कर्तव्यम्" इति कर्मणः 1संप्र- दानत्वाच्चतुर्थी। दृशये दर्शनाय । इगुपधात् कित् [७४. ११९] इति औणादिक इप्रत्ययः । कित्त्वात् लघूपधगुणाभावः । र्य द्रष्टुम् अद्य इदानीम् इह अस्मच्छरीरे भद्रम् भन्दनीयम् असुम् प- ञ्चवृत्तिकं प्राणम् अस्मभ्यं पुनर्दाताम् पुनः प्रयच्छताम् । ददा- तेश्छान्दसे लुङि “गातिस्था” इति सिचो लुक् । बाहुलकाद् अमा- ङ्योगेपि अडभावः ॥ चतुर्थी ॥ सोम एकेभ्यः पवते धृतमेक उपासते। येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात् ॥ १४ ॥ सोमः । एकेभ्यः । पवते । घृतम् । एकै । उप । आसते । येभ्यः । मधु । प्रऽधावति । तान् । चित् । एव । अपि । गच्छतात् ॥१४॥ इदमादिभिः पञ्चभिर्ऋग्भिः म्रियमाणानां यजमानानां वर्तनम् अत्र प्रतिपाद्यते । एकेभ्यः केभ्यश्चित् पितृभ्यः सोमः पवते उपभोगाय कु- ल्यारूपेण प्रवहति येषां गोत्रजाः सामानि ब्रह्मयज्ञसमयेऽधीयते । श्रूय- ते हि । “यत सामानि सोम एभ्यः पवते" इति [तै आ०२.१०. १] ॥ एके अन्ये पितरः घृतम् आज्यम् उपासते उपगच्छन्ति । उप- भुञ्जत इत्यर्थः । येषां पुत्रादयो यजूंषि ब्रह्मयज्ञकालेऽधीयते । श्रुतिश्च भवति । “यद् यजूंषि घृतस्य कूल्या" इति [तै आ°२.१०.१] ॥ येभ्यः पितृभ्यः ।तादर्थ्ये चतुर्थी ४ । उपभोगाय मधु क्षौद्रं प्रधावति प्रवाहरूपेण शीघ्रं गच्छति । ये आथर्वणान् मन्त्रान् ब्रह्मयज्ञा- र्थम् अधीयते तेषां पितॄन् प्रति [मधु] मधुकुल्या प्रवहति । तथा चा- १ ABOR V D प्रधावधि. K प्रधावधि. CP प्रऽधौ । अधि।. P* प्रऽधौ । अधि।. IT.. with Sâyana. rit can make no sense here. Ilalayudha gives a well'as one of the senses of spa, but I know of no Velic passage in which the word mcans a well. Besides, wfty does not mean in, but upon, which will not do in the present passage. I prefer to follow Sayaņa.