पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

et अथर्वसंहिताभाष्ये म्नायते । “यद् अथर्वाङ्गिरसो मधोः कूल्याः" इति [तै आ°२.१०.१] । तांश्चिदेव पूर्वोक्तान सर्वान एव हे म्रियमाण प्रेत वा अपि गच्छतात अपिगच्छ प्राप्नुहि । "तुह्योः” इति हेस्तातङ् आदेशः ॥ पञ्चमी । ये चित पूर्व ऋतसाता ऋतजाता ऋतावृधः । ऋषीन् तपस्वतो यम तपोजाँ अपि गच्छतात् ॥ १५ ॥ ये। चित् । पूर्वे । ऋतऽसाताः । ऋतऽजाताः । ऋतऽवृधः । ऋषीन् । तपस्वतः । यम । तपःऽजान् । अपि । गच्छतात् ॥ १५ ॥ ये चित् ये च पूर्वे. पूर्वपुरुषा ऋतसाताः ऋतम् सत्यं यज्ञो वा तेन दत्ताः संभक्ता वा। सनतेर्निष्ठायां “जनसनखनां सन्झलोः" इति आत्वम् । अत एव ऋतजाताः ऋतेन सत्येन जाता उत्पन्नाः ऋतावृधः 2ऋतस्य वर्धकाश्च भवन्ति । तपस्वतः तपसा युक्तान् तपोजान् तपसः सकाशादेव उत्पन्नान् ऋषीन् अतीन्द्रियार्थदर्शिनस्तान् हे यम य- मवत् नियत यद्वा यमेन पितृराजेन नीयमान हे प्रेत त्वम अपि ग- च्छतात् [अपिगच्छ प्राप्नुहि ] ॥ षष्ठी ॥ तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः । तपो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात् ॥ १६ ॥ तप॑सा । ये। अनाधृष्याः । तप॑सा । ये । स्व- । ययुः । तपः । ये। चक्रिरे। महः । तान् । चित् । एव । अपि । गच्छतात् ॥१६॥ ये जनाः तपसा कृच्छ्रचान्द्रायणादिना युक्ताः सन्तः अनाधृष्याः पापै- रमधृष्या भवन्ति । ये च तपसा यागादिरूपेण साधनेन स्वः स्वर्ग य- युः यान्ति प्राप्नुवन्ति । ये च महः महत् तपः अन्यैर्दुष्करं राजसूयाश्व- PC चक्रिरे। 15 थर्वागिरो tor °थर्वाङ्गिरसो. 2 ततस्य वर्धकांश्च for ऋतस्य वर्धकाच. 33 has here a Incua for abont mine letters,