पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू०२.] ५४२ ९९ अष्टादशं काण्डम्। मेधादिकं हिरण्यगर्भाद्युपासनं वा चक्रिरे कुर्वन्ति । एते येषु लोकेषु व- र्तन्ते तेषु लोकेषु तांश्चिदेव तानेव तपस्विनः हे प्रेत अपि गच्छत्तात् अपिगच्छ ॥ सप्तमी ॥ ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः । ये वा सहस्रदक्षिणास्तांश्चिदेवापि गच्छतात् ॥ १७ ॥ थे। युध्यन्ते । प्रऽधनेषु । शूरासः । ये । तनूऽत्यजः । ये। वा। सहस्रऽदक्षिणाः । तान्। चित् । एव । अपि । गच्छतात् ॥१७॥ प्रधनेषु । प्रकीर्णानि अस्मिन धनानि भवतीति प्रधनाः संग्रामाः । तेषु शूरासः शौर्यवन्तो ये युध्यन्ते शत्रून् संप्रहरन्ति । ये च तनूत्यजः शरीराणि 1तत्र ये त्यक्तारो भवन्ति । ये वा ये च सहस्रदक्षिणाः सह- स्रदक्षिणान क्रतून अनुष्ठितवन्तः तान् सर्वानेव हे प्रेत त्वम् इतो ग- च्छ । ते येषु उत्तमेषु लोकेषु निवसन्ति तं लोकं प्राप्नुहीत्यर्थः ॥ अष्टमी॥ सहस्रेणीयाः कवयो ये गोपायन्ति सूर्यम् । ऋषीन् तपस्वतो यम तपोजाँ अपि गच्छतात् ॥ १ ॥ सहस्रऽनीयाः । कवयः । ये । गोपायन्ति । सूर्यम् । ऋषीन् । तपस्वतः । यम । तपःऽजान् । अपि । गच्छतात् ॥१॥ सहस्रणीथाः सहस्र2नयनाः कवयः क्रान्तदर्शिनो ये सूर्यम् आदित्यं गोपायन्ति रक्षन्ति तपस्वतः तपसा युक्तान् तपोजान् तपसः सकाशादेव उत्पन्नान् तान् ऋषीन् हे यम नियत शकटे बद्ध वा यमेन नीयमा- न वा हे प्रेत त्वम् अपि गच्छतात् अपि गच्छ ॥ नवमी ॥ स्येनास्मै भव पृथिव्यनृक्षरा निवेशनी। 18'यत्रय for तत्र ये. 28 नयवाः