पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०० 66 पाघ्रा अथर्वसंहिताभाष्ये यच्छास्मै शर्म सप्रथाः ॥ १९ ॥ स्योना । अस्मै । भव । पृथिवि । अनृक्षरा । निऽवेशनी। यच्छे । अस्मै । शर्म । सऽप्रथाः ॥ १९ ॥ हे पृथिवि प्रथिते भूमे वेदिरूपे त्वम् अनृक्षरा अनाधिका निवेशनी निविशन्ति अत्रेति निवेशनी शयनार्हा सती अस्मै मुमूर्षवे जनाय अ- स्थिरूपप्रेताय वा स्योना सुखकरी भव । किं च अस्मै पूर्वोक्ताय स- प्रथाः [मथः] प्रख्यानं विस्तीर्णता तत्सहिता त्वं शर्म सुखं यच्छ दे- हि । ४ दाण् दाने । पाप्रा " इत्यादिना यच्छादेशः ॥ दशमी॥ असंबाधे पृथिव्या उरौ लोके नि धीयस्व । स्वधा याश्चकृषे जीवन् तास्ते सन्तु मधुश्चुतः ॥ २० ॥ (८) असमऽबाधे। पृथिव्याः । उरौ । लोके । नि। धीयस्व । स्वधाः । याः । चकृषे । जीवन् । ताः । ते । सन्तु । मधुऽश्चुतः ॥ २०॥ हे मुमूर्षों प्रेत वा असंबाधे । संबाधः संमर्दः । तद्रहिते उरौ वि- स्तीर्णे पृथिव्याः अग्निहोत्रवेदिलक्षणाया लोके लोक्यमाने स्थाने नि धी- यस्व धापितो भव । दधातेः कर्मणि यक् ।पूर्वं त्वं जीवन् जीवनवान्1 याः स्वधाः स्वम् आत्मानं दधाति पुष्णाति धिनोतीति स्वधा अन्नम् दैवानि हवींषि स्वधाकारेण दत्तानि पित्र्याणि हवींषि [च] चकृषे कृतवान् असि । करोतेर्लिटि क्रादिनियमाद् इडभावः । ताः स्वधाः ते नव मधुश्च्युतः मधुमवाहक्षार2यित्र्यः सन्तु भवन्तु । उपलक्ष- णम् एतत् । मधुररसघृतसोमादिप्रवाहरूपा भवन्तु ॥ [इति ] द्वितीयेनुवाके द्वितीयं सूक्तम् ॥ Ratatat'. ABC V atstatº. De sfrenatº corrected to siftetnº. Kft- २ CD मधुभ्युतः changed to मधुश्रुतः. R मधुभ्यु- RPP FTATI. We with Cr. - CP जीवन् ।. PP जीवन् । ५० युतः।. ताः datº. The emendation is mine. तः. 18 जीवनवन्. 28 प्रवाहहार° for प्रवाहक्षार.