पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू.२.] ५४२ अष्टादशं काण्डम्। १०१ "ह्रयामि" [२१] इति आद्यायाः स्योनास्मै भव"[१९] इत्यनया सह उक्तो विनियोगः ॥ 'उत त्वा वहन्तु" [२२] इत्यनया चितेर्दक्षिणपार्श्वे अजं 1पशुं(बध्ना- ति । यथा दह्यते'] तथा बध्नीयात् ॥ आहिताग्ने संस्कारार्थ विहितेषु त्रिष्वग्निषु “अपेमम्" [२७] इत्यृचा आज्यं जुहुयात् ॥ पिण्डपितृयज्ञे बर्हिषि उदपात्रनिनयनाननरं2 “ये दस्यवः" [२९] इत्य- चा उभयत आ(दिप्तम् उल्मुकं निरस्येत् ] । सूत्रितं हि । “यज्ञोपवीती ये दस्यव इत्युभयत आदीप्तम् . उल्मुकं त्रिः प्रसव्यं परिह्रत्य निरस्यति" इति [कौ ११..] ॥ पिण्डपितृयज्ञ एव “सं विशन्तु"[२९] इत्यनया आस्तीर्णे बर्हिषि तिलान् प्रकिरेत् ॥ तत्र प्रथमा॥ ह्वयामि ते मनसा मन इहेमान् गृहाँ उप॑ जुजुषाण एहि । सं गच्छस्व पितृभिः सं यमेन स्पोनास्त्वा वाता उप वान्तु शग्माः॥२१॥ यामि । ते । मनसा । मनः । इह । इमान् । गृहान् । उप । जुजुषाणः । आ। इहि । सम् । गच्छस्व । पितृभिः । सम् । यमेन। स्योनाः। वा। वाताः । उप। वान्तु । शग्माः ॥२१॥ हे प्रेत पुरुष ते तव संबन्धि मनः अन्तःकरणम् अस्मदीयेन मनसा इह अस्मिन् लोके ह्वयामि आह्वयामि । इमान् अस्मदीयान् गृहान् येषु त्वाम् उद्दिश्य और्ध्वदेहिकं कर्म क्रियते तान् जुजुषाणः सेवमानः प्रीयमाणो वा । जुषी प्रीतिसेवनयोः । व्यत्ययेन श्नुः । उ पैहि3 उपागच्छ । उपेत्य च संस्कारोत्तरकालं पितृभिः पितृपितामहमपि- १P इमाम् । गृहात् ।. Pइमाम् । गृहान् ।. CP हुमान् । गृहां ।. 18's. 28' bas a lacuna for some nine letters here. The restoration in based upon the Kesari. प्रीयमाणो वा । 3 So 8.