पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ अथर्वसंहिताभाष्ये तामहैः सं गच्छस्व सापिण्ड्यकरणेन संगतो भव । "समो ग- म्यृच्छि” इति आत्मनेपदम् । यमेन 1तद्राजेन च संगतो भ- व । स्योजाः। x2षिवुं तन्तुसंताने । अस्माद् औणादिको नप्रत्ययः । 'च्छोः शूडनुनासिके च" इति वकारस्य ऊडादेशः । पितृलोक- गमनसमये तव अध्वजन्यश्रमम् अपनेतुं संतता; नैरन्तर्येण वर्तमानाः शग्माः सुखकराः शैत्यमान्द्यसौरभ्ययुक्ता वाताः वायवस्त्वा त्वाम् उप वान्तु उपगच्छन्तु । पवा गतिगन्धनयोः । अदादित्वात् शपो लुक् । द्वितीया ॥ उत् त्वा वहन्तु मरुत उदवाहा उदप्रुतः। अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति ॥ २२ ॥ उत् । त्वा । वहन्तु । मरुतः । उदऽवाहाः । उद्ऽप्रुतः । अजेन । कृण्वन्तः । शीतम् । वर्षेण । उक्षन्तु । बाल् । इति ॥ २२ ॥ हे प्रेत मरुतः मरुसंज्ञका देवास्त्वा त्वाम् उद्वहन्तु ऊर्ध्वम् आकाशे वहन्तु धारयन्तु । यद्वा उदवाहसमभिव्याहारात् मरुच्छब्देन वायव उ- च्यन्ते । वायवस्त्वाम् उपरिलोकं प्रापयन्तु इत्यर्थः । अपि च उदवाहाः उदकं वहन्ति धारयन्तीति उदवाहा मेघाः । "पेषंवासवाह" इति उदकशब्दस्य उदभावः । अत एव उदप्लुतः उदकैर्भूमिं प्लावयन्तः आर्द्रीकुर्वन्तः । शीतम् शैत्यगुणं कृण्वन्तः कुर्वन्तः एवंगुणविशिष्टा मे- घाः समीपबद्धेन अजेन सहितं त्वां वर्षेण वर्षजलेन उक्षन्तु सिञ्चन्तु । इतिशब्दः बाल् इत्यस्य अनुकरणशब्दतां द्योतयति । उक्षणसमये बाल् इत्येवमात्मकः शब्दो यथा जायेत तथा उक्षन्तु इत्यर्थः ।उक्ष से- चने ४ ॥ तृतीया ॥ उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे । ? BŘtad. V teegd: (sir). De targate changed to termst. We with AC PRACT! CPPR. 18 तद्राज्ञा for तद्राजेन. 28 षिवि for षिवु.