पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" [अ०२. सू०२.] ५४२ अष्टादशं काण्डम्। १०३ स्वान गच्छंतु ते मनो अंधा पितॄरुप द्रव ॥ २३ ॥ उत् । अलम् । आयुः । आयुषे । क्रत्वे । दक्षाय । जीवसे । स्वान् । गच्छतु । ते । मनः । अध । पितॄन् । उप । द्रव ॥ ३३ ॥ हे प्रेत ते त्वदीयम् आयुः उदह्वम् उच्चैःस्वरेण आह्वयामि । छ न्दसि लुङ्लङ्लिटः" इति लुङ् । “लिपिसिचिङश्च" इति च्लेः अङ् आदेशः । किमर्थम् । आयुषे जीवनाय क्ऋत्वे क्ऋतवे यज्ञादिकर्म- णे दक्षाय बलाय । यद्वा “प्राणो वै दक्षः । अपानः क्ऋतुः” इति [तै० सं०२. ५.२.४] श्रुतेर्दक्षक्ऋतुशब्दाभ्यां प्राणापानाव1भिधीयते । क्र- त्वे अपाननव्यापाराय दक्षाय प्राणनव्यापाराय । प्राणवायोर्नासारन्ध्राद् बहिनिःसरणं प्राणनम् । अ2न्तराकर्षणम् अपाननम् । जीवसे जीव- नाय प्राणधारणाय । सर्वत्र तादर्थे चतुर्थी ।एतत् स- र्वम् आयुषि सत्येव भवतीति तदाह्वानं क्रियत इत्यर्थः । ते त्वदीयं मनः स्वाम् स्वकीयां तनुं संस्कारजन्यम् अभिनवशरीरं गच्छतु । अध अथ शरीरमाध्यनन्तरं पितृन् वस्वादिरूपान् उप द्रव उपलक्ष्य गच्छ ।द्रु गतौ ॥ चतुर्थी ॥ मा ते मनो मासोर्माङ्गानां मा रसस्य ते । मा ते हास्त तन्व: किं चनेह ॥ २४ ॥ मा। ते । मनः । मा । असोः । मा। अङ्गानाम् । मा। रसस्य । ते। मा । ते । हास्त । तन्वः । किम् । चन । इह ॥ २४ ॥ हे प्रेत पुरुष ते तव मनः मानसम् इन्द्रियं मा हास्त त्वां मा प- रित्याक्षीत् ।ओहाक् त्यागे । व्यत्ययेन आत्मनेपदम् । So ABCÄRV De and not eai. BRET. We with ACË V De. Su ve with ABCKRV Dc. Sec Rw. PÚ Farul. Wc with CP which, however, actually reads FITTI. ५. चनेह. 18 पानाविस्त्यभिधीयेते. 23 अनंतराकर्षणम्, ४