पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ अथर्वसंहिताभाष्ये हा। ओहाङ् गता1वित्यस्य रूपम् । मा गच्छतु त्वां वि. हाय इह मा तिष्ठतु । तथा असोस्वदीयस्य प्राणस्य किं चन किमपि रूपं मा हास्त । अङ्गानाम् अवयवानां हस्तपादादीनां किमपि मा हा- स्त । तथा ते तव देहसंबन्धिनो रसस्य रुधिरादेः किमपि मा हास्त । इह अस्मिन् लोके ते तव तन्वः शरीरस्य किं चन किमप्यङ्गं मा हा- स्त । लोकान्तरे मनःप्राणादिसर्वाङ्गसहितशरीरयुक्तो भवेत्यर्थः ॥ पञ्चमी ॥ तथा मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही। लोकं पितृषु वित्वैधस्व यमराजसु ॥२५॥ मा। त्वा । वृक्षः । सम् । बाधिष्ट । मा। देवी । पृथिवी । मही। लोकम् । पितृषु । वित्त्वा। एधस्व । यमराजऽसु ॥ २५॥ हे प्रेत त्वा त्वां वृक्षः त्वदा2श्रयभूतो मा सं बाधिष्ट संबाधं हिंसनं मा कार्षीत् । बाधृ3 विलोडने । “माङि लुङ" ।तथा देवी द्योतमाना दानादिगुणयुक्ता वा मही महती पृथिवी त्वदाश्रयभूता भूमिस्त्वां मा सं बाधिष्ट । त्वं च यमराजसु यमो राजा ईश्वरो येषां ते यमराजानः तथाविधेषु पितृषु पितृदेवतासु लोकम् स्थानं वित्त्वा ल- ब्ध्वा एधस्व वर्धस्व । विद्ल लाभे । “समानकर्तृकयोः पूर्वकाले" इति त्काप्रत्ययः । एकाच उपदेशे” इति इट्प्रतिषेधः ॥ षष्ठी ॥ यत् ते अङ्गमतिहितं पराचैरपानः माणो य उ वा ते परतः । तत ते संगत्य पितरः सनीडा पासाद् घासं पुनरा वेशयन्तु ॥ २६ ॥ ? RB Destiny. K nifery. We with ACV. PÅ # I TASTI. Cउवातेपरेत:. KB उवातेपरैताः. De उवातेपरेताः changed to उवातेपरेत:. We with the corrected version of De. XABËV De aftsrgreingret. We with CR. 13 on. °चित्यस्य रूपम् । मा गच्छतु त्वां विहाय इह मा तिष्ठतु, and has insteaila " ३ AB Incuna for about fifteen letters. 2' त्वयाश्रय. 38 बाध.