पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९४ अथर्वसंहिताभाष्ये युष्मान् सन् उप यातु स्वगृहं प्रति गच्छतु । स च प्रेतः सुवर्चाः शो- भनेन वर्चसा युक्तः सन् तन्वा पितृलोकावस्थानोचितेन शरीरेण सं गच्छताम् युक्तो भवतु ॥ यद्वा चतुर्थपादोपि अपत्यविषयतया योजनी- यः । तत्पक्षेपि स च शेषः सुवर्चाः सन तन्वा स्वीयेन शरीरेण सं ग- च्छताम् । अनेन पितृमृतिदुःखात पुत्रस्य शरीरत्यागाभावो वर्चस्वित्वं च प्रार्थितं भवति ॥ इत्यष्टादशकाण्डे द्वितीयेनुवाके प्रथमं सूक्तम् ॥ पितृमेधे "अति द्रव” इति अष्टानाम् ऋचां दह्यमानप्रेतशरीरोप- स्थाने विनियोग उक्तः ॥ तथा एताभिरष्टभिर्दहनदेशं1 नीयमानं प्रेतशरीरम् अनुमन्त्रयेत ॥ संचयनकर्मणि एताभिरष्टभिः हरिणीसंज्ञिकाभिर्ऋग्भिः अस्थिपूर्णं कलशं निखननप्रदेशं प्रति हरेयुः ॥ तत्र “अति द्रव" इति तिसृभिः प्रेतहस्तयोर्दीयमानं गोपशुवृकवयम् अनुमन्त्रयेत ॥ 'स्योनास्मै भव" इति तिसृभिर्मुमूर्षुं यजमानम् अग्निहोत्रशालायाम् आस्तीर्णेषु दर्भेषु स्थापयेत् ॥ तथा एताभिस्तिसृभिर्ऋग्भिः 2अग्नेरुत्तरपार्श्वे प्रेतस्य शरीरं शकटाद् अवतारयेत् । इदं कर्म दहनस्थाने कर्तव्यम् ॥ तथा अस्थिपूर्णकलशस्य भूमौ निखननपक्षे “स्योनास्मै भव" [१९] इत्यृचा कलशम् अभिमन्त्रय निखनेत् ॥ " तत्र प्रथमा । अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा। अधा पितॄनसुविदत्राँ अपीहि यमेन ये सधमादं मदन्ति ॥ ११ ॥ अति । द्रव । श्वानौ । सारमेयौ । चतुःऽअक्षौ । शबलौ। साधुनो। पथा। १C चतुःऽअक्षौ ।। 18 दहनशेष. 28 अग्निरुत्तर.