पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू०२.] ५४२ 'अष्टादशं काण्डम् । याः। ते । शोचयः । रहयः । जातऽवेदः । याभिः। आऽपृणासि । दिवम्। अन्तरिक्षम्। अजम् । यन्तम् । अनु। ताः । सम् । ऋण्वताम् । अथ । इतराभिः। शि- वडतमाभिः । शृतम् । कृधि ॥ ९॥ हे जातवेदः ते याः शोचयः । शोचयनीति शोचयः । तादृशा याः सन्ति । तथा या रंहयः वेगवत्यः । रहि गतौ । औणादिक इ- प्रत्यय:। तन्वः सन्ति । किं च याभिस्तनूभिर्ज्वालारूपाभिः दि- वम् अन्तरिक्षं च [आ] प्रीणासि1 पूरयसि तर्पयसि वा तास्तव त- न्वो यन्तं गच्छन्तम् अजम् अनुस्तरणीलक्षणं समृण्वताम् संगच्छन्ताम् । अथ । अथेत्ययं प्रकारान्तरद्योतनार्थः । इतराभिस्तनूभिः शिवतरांभिः अत्यन्तसुखकराभिः अमुं प्रेतं शृतम् पक्वं हविर्योग्यं कृधि कुरु ॥ दशमी॥ अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान् । . आयुर्वसान उप यातु शेषः सं गच्छतां तन्वा सुवर्चाः ॥ १० ॥ (७) अव । सृज । पुनः । अग्ने । पितृऽभ्यः । यः । ते । आऽहुतः । चरति । स्वधाऽवान। आयुः । वसानः । उप । यातु । शेषः । सम् । गच्छताम् । तन्वा । सुड़- वर्चाः॥१०॥ (1) हे अग्ले वम एनं प्रेतं तव हविष्ट्वेन कल्पितं पितृभ्यः पुनरव सृज अत्यन्तं त्यज प्रयच्छ । पितृलोकस्थानायेत्यर्थः । यः प्रतपुरुषः ते त्वयि आहुत: आहुतित्वेन दत्तः स्वधावान् अस्माभिर्दत्ताभिः स्वधाभिस्तद्वान् सन् चरति गच्छति ॥ किं च शेषः । अपत्यनामैतत् । शेष इ- त्यपत्यनाम शिष्यत इति [निरुक्तम् । ३.२.५ । आयु2र्वसानः] आ- Pfarer I. We with Cr. Cpafai. 23 has सत for आयुर्वसानः and then :). 1 Sayana's text too in S bas sfortfar. space for about fifteen letters followed by .