पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२ अथर्वसंहिताभाष्ये उदकानि अन्तरिक्षं वा प्राप्नुहि । यदि तत्र अप्सु अब्देवतायां ते तव हितं भवेत् । अनेन तत्तत्स्थानप्राप्तेरैच्छिकत्वं सूचितं भवति । ओषधीषु व्रीहियवादिषु शरीरैः स्वाव1यवैः कर्मेन्द्रियैः । यद्वा पूजार्थं बहुवचनम् । शरीरेण स्थूलेन प्रति तिष्ठ प्रतिष्ठितो भव ॥ अष्टमी॥ अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥७॥ अजः । भागः । तपसः । तम् । तपस्व । तम्। ते। शोचिः । तपतु । तम्। ते । अर्चिः। याः । ते । शिवाः । तन्वः । जातऽवेदः । ताभिः । वह । एनम् । सुऽकृ- ताम् । ॐ इति । लोकम् ॥ ६ ॥ हे अग्ने अयम् अजस्तव भागः । अनुस्तरणीत्वेन 2अजस्य हन्यमान- त्वाद् एवम् उच्यते । तं तपसा तापकेन तव तेजसा तपस्व संतापय । तम् एव अजं भागं ते तव शोचिः दीप्तिः तपतु संतापयतु । तम् एव अज ते अर्चिः ज्वा3लालक्षणं 4तपतु ॥ एवम् अजस्य तापादिविष- यताम् अभिधाय अथ प्रेतस्य अभिमतलोकप्राप्तिम् आशास्ते । उ अपि च हे जातवेदः प्राप्तपशुलक्षणधन त्वं ते याः शिवाः सुखकरास्तन्वः स- न्ति । “ये ते अग्ने शिवे तनुवो" [तै ब्रा०१.१.७.२] इत्यध्वर्यु- मन्त्रोक्ता विराट्स्वराडाद्याः शिवास्तन्वः4 सन्ति ताभिस्तनूभिः शरीरसुख- करीभिः एनं प्रेतं सुकृताम् पुण्यकृतां लोकम स्थानं वह प्रापय ॥ नवमी ॥ यास्ते शोचयो रंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम् । अजं यन्तमनु त्ताः समृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि ॥९॥ { Brº. We with ACİRV De. २८ शिवं. शृतं changed to शिवं. We with ABKY Dc. 18 स्वदययवै for स्वावयवैः, 38 ज्वालालक्षणतमेष for 28 अजाय for अजस्थ. ज्वालालक्षणं तेजः. 18 तनुवः.