पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू०२.] ५४२ अष्टादशं काण्डम् । ९१ सोम इति शेषः । ज्योतिष्टोमादीनाम् अने1नुष्ठाने यमो हनिष्यतीति भी- त्या तेषु सोमोभिषूयत इत्यर्थः । तथा षडुर्वीः षडुर्व्यः । “षण्मोीर- हससान्तु" [आश्व १.२.१] इत्यत्राम्नानाद् द्योश्च पृथिवी च अहश्च रात्रिश्च आपश्च ओषधयश्च एताः षड् उर्व्यः । ता अपि एकमित् एकमेव बृहत् महान्तं यमम् । उद्दिश्यैव प्रवर्तन्त इति शेषः । अथ वा बृहत् इति उत्तरत्र अन्वेति । बृहत् बृहती छन्दः तथा त्रिष्टुप् गायत्रीति च्छ- न्दांसि । ता तानि इतराणि [सर्वा सर्वाणि ] छन्दांसि यमे आर्पिता आर्पितानि पर्यवसितानि । छन्दोभिरुपलक्षिताः सर्वे मन्त्रा यमैकविषया इत्यर्थः।ऋ गतौ।'अर्तिह्री " इत्यादिना पुगागमः । “जु- ष्टार्पिते च च्छन्दसि" इति आद्युदात्तत्वम् ॥ सप्तमी॥ सूर्य चक्षुषा गच्छ वातमात्मना दिवं च गच्छ पृथिवीं च धर्मभिः । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति निष्ठा शरीरैः ॥ ७ ॥ सूर्यम् । चक्षुषा । गच्छ । वातम् । आत्मना । दिवम् । च । गच्छ । पृथि- वीम् । च । धर्मऽभिः अपः । वा । गच्छ । यदि । तत्र । ते । हितम् । ओषधीषु । प्रति । तिष्ठ । शरीरैः ॥७॥ हे मृत पुरुष त्वं सूर्यं देवं चक्षुषा चक्षुर्द्वारेण गच्छ । सूर्यप्राप्तौ च- क्षुरेव द्वारम् । “आदित्यश्चक्षुर्भूत्वाक्षिणी2 प्राविशत्" इति [ऐ• आ°२. ४.२] पूर्वम् अक्षिणि आदित्यानुप्रवेशात् । तथा वातम् वायुं सूत्रात्मा- नम् आत्मना । अत्र आत्मशब्देन मुख्यः प्राणोभिधीयते । तेन तं ग- च्छ । अत्रापि "वायुः प्राणो भूत्वा नासिके प्राविशत्" इति [ऐ आ. २.४.२] श्रुतेः वातप्राप्तौ प्राण एव द्वारम् । एवं धर्मभिः शरीरधारकैः इतरैरिन्द्रियैः दिवं [च] पृथिवीं च गच्छ । वा अथ वा अपो गच्छ १ चक्षुषा गच्छ. Do चक्षुषा गच्छ changed to चक्षुषा गच्छ. We with A C. CRCPR 3. We with BV De BV Deat. We with A KOR. 18 omits न in भमनुष्ठाने. 28 भूत्वाक्षिणी. वीम् । च। 1 A