पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९० अथर्वसंहिताभाष्ये पञ्चमी॥ यदा शृतं कृणवो जातवेदोडथेममेनं परि दत्तात् पितृभ्यः । यदो गच्छात्यसुनीतिमेतामथ देवानां वशनीर्भवाति ॥ ५ ॥ यदा । शृतम् । कृणवः । जातऽवेदः । अथ । इमम्1 । एनम् । परि । द- त्तात् । पितृऽभ्यः। यदो इति । 3गच्छाति । असुऽनीतिम् । एताम् । अर्थ । देवानाम् । वशऽनीः । भवाति4 ॥५॥ हे जातवेदः मातहविर्लक्षणधन अग्ने त्वम् एनं शृतम् पक्वं यदा कृ- णवः अकरोः अथ अनन्तरम् 2इदम् इदानीम् एनं दाहेन संस्कृतं पु- रुषं पितृभ्यः परि दतात् प्रयच्छ । यद्वा परिदानं रक्षणाय दानम् इति प्रसिद्धेस्तस्य रक्षणाय प्रयच्छ । उ अपि च अयम् एतां प्रसिद्धाम् अ- सुनीतिम् असून् प्राणान् नयति लोकान्तरम् इति असुनीतिः प्राणाप- हर्त्री देवता तां [यदा] गच्छाति गच्छति अथ अनन्तरम् अयं देवा- नाम् द्योतमानानां स्वकीयानाम् इन्द्रियाणां वशनीः वशं नयतीति व- शनीः।"सत्सूद्विषः” इत्यादिना क्विप् । चक्षुरादीन्द्रि- याणां सूर्यादिदेवताप्रापको भवाति भवति ॥ शनीः । षष्ठी। त्रिकद्रुकेभिः पवते षडुवीरेकमिद् बृहत् । त्रिष्टुब् गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥ ६ ॥ त्रिऽकद्रुकेभिः । पवते । षट् । उर्वीः । एकम् । इत् । बृहत् । त्रिऽस्तुप् । गायत्री । छन्दांसि । सर्वा । ता । यमे । आर्पिता ॥ ६ ॥ त्रिकद्रुकेभिः त्रिकद्रुकैः । ज्योतिष्टोमगोष्टोमायुष्टोमास्त्रयः त्रिकद्रुका इ- त्युच्यन्ते । तैर्निमित्तभूतैस्तेषां निष्पत्तये पवते पूयते यमार्थम् अभिषूयते । १ थेदमैनं. We with ck Revp. २ Cr इदम् । ईम, for मम् ।. ति ।. CP गच्छाति । 1Pगछ- ४P भवति।