पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

te अ.२. सू०२.] ५४२ 'अष्टादशं काण्डम्। संस्कृतं जुहोतन जुहोत जुहुत । तस्य तनादेशे गुणः ।तेन किं लभ्यत इत्यत आह । स प्राप्तहविः सन् नः अस्मान् जीवेषु जी. वासु प्राणिषु मध्ये आ यमत् नियमयेत् स्थापयेत । यथा मृतिर्न भवेत् तथा करोतु । किं च स यमः दीर्घम् आयुः शतसंवत्सरलक्षणम् । प्र- यच्छतु इति शेषः । किमर्थम् । जीवसे जीवनाय ॥ . चतुर्थी ॥. मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् । शृतं यदा करसि जातवेदोडथेमेनं प्र हिणुतात् पितृँरुप॑ ॥ ४ ॥ मा। एनम् । अग्ने। वि। दहः ।मा। अभि। शूशुचः । मा। अस्य । त्वचम् । चिक्षिपः । मा। शरीरम् । शृतम् । यदा । करसि । जातऽवेदः । अर्थ । ईम् । एनम् ।प्र। हिनुतात् । पितृन् । उप ॥४॥ हे अग्ने एनं प्रेतं मा वि दहः विदाहम् अतिदाहं मा कार्षीः । त- था माभि शूशुचः । ४ शुचेर्लुङि चङि रूपम् । दीर्घो लघोः" इति अभ्यासस्य दीर्घः । अभितः शोकयुक्तं मा कार्षीः । उप- र्यधश्च उभयोः पार्श्वयोरपि दाहाद् अभितः शोको भवति तदभावोत्र प्रार्थ्यते । किं च अस्य त्वचं मा चिक्षिपः अन्यत्र मा गमय । त्वग्भे- दं मा कुर्वित्यर्थः । तथा शरीरमपि मा चिक्षिपः अस्य शवशरीरस्य आहुतिरूपत्वात् पुरोडाशादिवद् विदाहाद्यभावः प्रार्थ्यते । यदा त्वम् ए- तच्छरीरं शृतम् हविर्योग्यं पक्वं करसि करोषि । आ पाके। शृतं पाके” इति कर्मणि कर्तरि वा निपातनात् शृभावः । करसी- ति । करोते: औत्सर्गिकः शप् । लेटि वा अडागमः । हे जा तवेदः जातप्रज्ञ अग्ने अथ शृतकरणानन्तरम् ईम् एनं पितृभ्यः 1उप पि- तृसमीपं प्र हिणुतात् प्रहिणु प्रेरय ॥ १ A मेन (omitting °थे ). C वेदोथेमेनं. R वेदोथेममेनं, We with Bk De. २ इमम्. P too, which however seems to correct it to इम् (ईम्?). 1 So S'. The text in S howerer, reads पितृभ्य-: for पितृरूप. 66 66 हे जा-