पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

66 अथर्वसंहिताभाष्ये इदम् । नमः । ऋर्षिऽभ्यः । पूर्वऽजेभ्यः । पूर्वभ्यः। पथिकृतऽभ्यः ॥२॥ अत्रापि पूर्वमन्त्रवद् यमस्य प्राधान्याभिप्रायेण होमप्रतिष्ठे तस्यैव कर्तव्ये इत्यभिधीयते । हे यजमानाः यमायैव देवाय मधुमत्तमम् अतिशयेन म- धुमत् सोमाज्यादिकं हविः जुहोत जुहुत । R"तप्तनप्तन." इति तस्य तबादेशे गुणः । प्र च तिष्ठत प्रतिष्ठां समाप्तिं यमायैव कु- रुत । ननु यमायैव हूयते तत्सहचारिणां पितॄणां किं स्याद् इत्याशङ्कय तेषां नमस्कारः क्रियत इत्याह इदं नम इति । ऋषिभ्यः मन्त्रादिद्रष्टृ भ्यः अङ्गिरःप्रभृतिभ्यः । Xऋषिर्दर्शनात् । स्तोमान् ददर्शेत्यौपमन्यव इति निरुक्तम् । तद् यद् एनांस्तपस्यमानान् ब्रह्म स्वयंभ्वभ्यानर्षत त ऋषयोऽभवंस्तद् ऋषीणाम्1 ऋषित्वम् इति विज्ञायते । इति च निरु- तंम [नि० २.११.] । ऋषयो विशेष्यन्ते । पूर्वजेभ्यः पूर्वम उ- त्पन्नेभ्यः इदानींतनयजमानापेक्षया तेषां पूर्वजत्वम् । अत एव पूर्वेभ्यः पथिकृद्भ्यः । [2पथिकृतः पितृलोकस्य पथां कर्तारः । ये प्रथमं परेताः स्व- र्गमार्गाणां दर्शयितारस्ते पथिकृतः पितृ)गणगताः । तेषां मार्गाणाम् इदा- नीन्तनैरपि अनुस्त्रि3यमाणत्वात् । एवंमहानुभावेभ्य ऋषिभ्यः अङ्गिरःप्रभृ- तिभ्यः इदं नमः नमस्कारोस्तु ॥ तृतीया ॥ यमाय घृतवत् पयो राज्ञै हविर्जुहोतन । स नो जीवेष्वा यमेद् दीर्घमायुः प्र जीवसे ॥ ३ ॥ यमाय । घृतऽवत् । पर्यः । राज्ञै । हविः । जुहोतन । सः । नः । जीवेषु । आ । यमेत् । दीर्घम् । आयुः । प्र। जीवसे ॥३॥ हे यजमानाः यमाय राज्ञे घृतवत् घृतोपेतं पयः क्षीरं हविः हवीरूपेण ABCÊR Harfreito. Wc with VC» De PÞ. ¥Ä V Deogw. We with A ३P आयु । ४ CP जीवसे । 18 स्वयंभुवभ्यानवृषत्तवृषयोध्रुवंतहषीणा. 28 has a lacuna for some eighteen or twenty letters here. The restoration is conjectural. 38 अनुसर्य° for अनु. BCR त्रिय