पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू०२.] ५४२ अष्टादशं काण्डम्। पितृमेध एव चतुर्थेऽहनि “अव सृज" इत्यनया 1एकाग्निकस्याहिताग्नेः शरीरम् अनुमन्त्रयेत ॥ तत्रप्रथमा॥ यमाय सोमः पवते यमाय क्रियते हविः । समं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥१॥ यमाय । सोमः । पवते । यमाय । क्रियते । हविः । यमम । ह । यज्ञः । गच्छति । अग्निऽदूतः । अरम्ऽकृतः ॥१॥ यमाय देवाय सोमः पवते पूयते अभिषूयते सोमयागे यजमानैः ।क- र्मणि कर्तृप्रत्ययः । 2शप् । पूधातोः ।सोमसाधनो ज्योतिष्टोमादि- रननुष्ठितश्चेद् यमो नरके पातयिष्यतीति भिया यमप्रीतये सोमोभिषूयत इत्यर्थः । अथ वा पितॄणां सोम3संबन्धेन यमस्यापि सोमोस्त्येव । किं च यमायैव हविः आज्यादिलक्षणं क्रियते संस्क्रियते उत्पवनादिसंस्कारे- ण । किं च यमं ह यममेव यज्ञः कृत्स्नो ज्योतिष्टोमादिः गच्छति । कीहशो यज्ञः । अग्निदूतः । दूतो यथा स्वामिना दत्तं धनादिकं दा- तव्याय प्रयच्छति एवम् अग्निरपि यजमानेन दत्तं हविस्तस्मैतस्मै देवाय प्रयच्छत्तीत्यगिनुर्दूत इत्यभिधीयते । 4अलंकृतः स्तोत्रशस्त्रादिभिर्भूषितः । यद्वा अलम् अत्यर्थं निष्पादितः । साङ्गोपाङ्ग इत्यर्थः । यद्यपि सोमो हविश्व उभे सर्वार्थं क्रियेते तथा यज्ञोपि सर्वदेवार्थः तथापि यमस्य सर्वप्राणि- संहर्तृत्वेन वा सर्वेषां पितृलोकप्रापकत्वेन वा प्राधान्याद् यमायैव सो- मादिकं क्रियत इत्युपचर्यते ॥ द्वितीया ॥ यमाय मधुमत्तमं जुहोता म च तिष्ठत । इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥२॥ यमाय । मधुमतऽतमम् । जुहोत । म। च । तिष्ठत । 18 एकाहि for एकाग्नि. We correct according to the Kesari, स्वामिसाधने for शप् । पूधातोः। सोमसाधनो. 3 8 संबंधनो for °संयन्धेन. 43 अलयम्. 28 शपधात्त-