पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

tę अथर्वसंहिताभाष्ये इतः । एते। उत । आ । अरुहुन् । दिवः । पृष्ठानि । आ । अरुहन् । प्र । भूःऽजयः । यथा । पथा। द्याम । अङ्गिरसः । ययुः ॥ ६१ ॥ (६) शवसंस्कर्तारः पुरुषाः एतत् मृतशरीरम् इतः अस्माद् भूप्रदेशाद् उ- दारुहन् ऊध्र्वं शकटादिकम् आरोहयन् । इत एतद् इति शकटे शयने वा प्रेतं निदध्याद् इति विनियोगात् ॥ अनन्तरं दिवः धुलोकस्य पृ- ष्ठानि स्पष्टव्यानि उपरितनस्थलानि भोग्यस्थानानि आरुहन् आरोह- यन् । रुहेर्लुङि “कृमृदृरुहिभ्यश्छन्दसि" इति च्लेः अङ् । डि- त्त्वाद् गुणाभावः । द्युलोकं केन पथा आरोहयन्निति तत्राह । भूर्जयः भरणवन्तो भुवं जितवन्तो वा अङ्गिरसः यथा यादृशेन पथा मा- र्गेण द्याम् धुलोकं [प्र] ययुः प्राप्ताः । तेन मार्गेण दिवस्पृष्ठान्यारुहन् इति संबन्धः ॥ इत्यथर्वसंहितायां प्रथमेनुवाके अष्टादशकाण्डे षष्ठं सूक्तम् ॥ प्रथमोऽनुवाकः समाप्तः॥ द्वितीयेनुवाके षट् सूक्तानि । तत्र1 “यमाय सोमः" इति प्रथमं सूक्तम् । अत्र आदितस्तिसृणाम् शुचां पूर्वर्चा सह प्रेतोत्थापनकर्मणि उक्तो वि. नियोगः2 ॥ पितृमेधे “मैनमग्ने"[४] इत्यादिभिः “सहस्रणीया कवयः"[१] इत्यन्ताभिः “अव सृज" [१०] इत्युग्वर्जि3ताभिश्चतुर्दशभिर् ऋग्भिर्दह्यमानं प्रेतशरीरं सर्वे गोत्रिण उपतिष्ठेरन् ॥ 'मैनमग्ने” इति चतसृभिः प्रेतशरीरे कनिष्ठपुत्रेण दत्तम् अग्निं गो- त्रिण आदीपयेयुः ॥ तत्रैव कर्मणि “अजो भागः"[] इति द्वाभ्यां चितेर्दक्षिणपार्श्वे अज- पशुं बन्धीयात् । यथा दह्यते तथा बन्धनं कार्यं मोचनं न कर्तव्यम् । तथा च मा4हकिराचार्यः “अजो हन्यते दह्यते एकाग्निप्रेतशरीरदहने" इति ॥ 28 °युक्तः for °योगः. त्यृग्वर्धतामि for s. त्यृग्वर्जिताभि. 43 याहि for माह. < 18 inserts प्रथमा after तत्र.