पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू.१.] ५४१ अष्टादशं काण्डम् । हुलं छन्दसि" इति संप्रसारणम् । अस्मिन बर्हिषि आस्तीर्णे निषद्य । यथा हविः स्वीकरोति तथा आह्वयामीति शेषः । आभिमु- ख्येन निषध इति वा ॥ दशमी॥ इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः । आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व ॥ ६० ॥ इमम् । यम । प्रऽस्तरम् । आ । हि । रोह । अङ्गिरःऽभिः । पितृडभिः । समऽविदानः । आ। त्वा । मन्त्राः । कविऽशस्ताः । वहन्तु । एना । राजन् । हविषः । मादयस्व ॥ ६॥ हे यम इमम् पुरत आस्तीर्ण प्रस्तरम् बर्हिषम्1 । उपस्तीर्णो दर्भः प्र- स्तरः। प्रे स्त्रोऽयज्ञे” इति निषेधाद् घञभावः । “ऋदो- रप्"। तं प्रस्तरम् आ सीद । हि इति पादपूरणः । किमेक एव । नेत्याह । अङ्गिरोभिः एतन्नामकैः पितृभिः सह संविदानः 2ऐकमत्यं प्राप्तः । “समोगम्यृच्छि” इति आत्मनेपदम् ।(हे रा जन्] त्वा त्वां कविशस्ताः कविभिः क्रान्तप्रज्ञैर्महर्षिभिः स्तुता मन्त्राः आह्वानसाधना आ वहन्तु आह्वानं कुर्वन्तु आ3गमयन्तु । आगत्य च एना एनेन अनेन । "द्वितीयाटौःस्वेनः” इति एनादेशः । सर्व- विधीनां छन्दसि विकल्पितत्वाद् इनादेशाभावः । हविषः। तृ तीयार्थे षष्ठी। हविषा अस्माभिर्दत्तेन मादयस्व ॥ एकादशी ॥ इत एत उदारुहन दिवस्पृष्ठान्याहने। म भूर्जयो या पथा ग्रामङ्गिरसो ययुः ॥ ६१ ॥ (६) ROK ft diuifito. Rf steifito. We with ABV De. २ B. उदारु. Rउ 1. We with CV Dc. VEH.BCKRV De attit. We with Cr. 18 हिंष उपस्तीणों &c. माप्तः । XT- 28 एक. 3 S om, at