पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥ ५ ॥ अङ्गिरसः । नः । पितरः । नवऽग्वाः । अथर्वाणः । भृगवः । सोम्यासः । तेषाम् । वयम् । सुऽमतौ । यज्ञियानाम् । अपि । भद्रे । सौमनसे । स्या- म ॥५॥ अङ्गिरसः एतvdनामानः अङ्गारात्मकाः । “येङ्गारा आसंस्तेगिरसोभ- वन" इति निरुक्तम् [ऐ ब्रा ३.३४] । पूर्व महर्षयः नः पितरः [अ. स्माकं पितरः । नवग्वाः] नूतनस्तुतिका नवभिर्मासैरुङ्गता वा । तथा अथर्वाणश्च नः पितरः भृगवश्च नः पितरः । भृगुर्भुज्यमानो न देहेङ्गारेष्विति निरुक्तम् [नि ३. १७] ।एते सर्वे सोम्यासः सो- मार्हाः सोमसंपादिनः । एषाम् अङ्गिरःप्रभृतीनाम् ऋषिगणमध्ये प्राधा- न्याद् इदानीन्तनानामपि प्राचुर्येण तङ्गोत्रत्वात् पितृत्वम् । यज्ञियानाम् यज्ञार्हाणां तेषां सुमतौ शोभनायाम् अनुग्रहरूपायां बुद्धौ वयं स्याम भवेम । तेषां सुमतिरस्मासु भवेद् इत्यर्थः । अपि अपि च तेषां भद्रे कल्याणे सौमनसे सुमनसो भावः सौमनसम् । युवादिषु पाठो द्र- टव्यः। तत्र स्याम भवेम । उक्तस्यैवार्थस्य स्पष्टाभिधानम् एतत् ॥ नवमी ॥ अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व । विवस्वन हुवे यः पिता तेस्मिन् बर्हिष्या निषद्य ॥ ५९॥ अङ्गिरःऽभिः। यज्ञियः। आ। गहि । इह । यम । वैरूपैः । इह । मादयस्व । विवस्वन्तम्। हुवे। यः। पिता। ते। अस्मिन् । बर्हिषि । आ। निऽसद्य॥९॥ हे यम इह अस्मिन् कर्मणि अङ्गिरोभिः एतन्नामकैः पितृभिः सह आ गहि आगच्छ । कीदृशैः । यज्ञियः यज्ञार्हैः । एवं वैरूपैः विरूपा- ख्यस्य महर्षे2र्गोत्रजैः सह आ गहि । आगत्य च इह अस्मिन् यज्ञे माद- यख तर्पय3स्व ॥ न केवलं त्वामेव ह्वयामि । किं तु ते तव यः पिता वि- वस्वान् आदित्यः तं विवस्वन्तं हुवे आह्वयामि । ह्रयतेर्लटि "ब- 28 महर्षि for महर्षेः. 1 So S. 35 तर्पय.