पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू.१.] ५४१ अ. अष्टादर्श काण्डम्। ४३ षष्ठी॥ उशन्तस्त्वेधीमह्युशन्तः समिधीमहि । उशन्नुशत आ वह पितॄन् हुवषे अत्तवे ॥ ५६ ॥ उशन्तः । त्वा । इधीमहि । उशन्तः । सम् । इधीमहि । उशन् । उशतः । आ । वह् । पितॄन् । हविषै। अत्तवे ॥५६॥ हे अग्ने अस्मिन् पितृयज्ञे त्वा वाम् उशन्तः यज्ञनिर्वाहार्थे त्वां का. मयमाना 1हवामहे आह्वानं कुर्मः । तथा उशन्तः कामयमानास्त्वां समि- धीमहि सम्यग् 2इड्धः करवाम । इन्धेर्विधिलिङि विकरणस्य लुक् छान्दसः । 3अनिंदिताम्" इति धातुनकारस्य लोपः ।त्वं च उशन यज्ञं. [स्वधां वा] कामयमानः सन् उशतः स्वधां कामयमानान् पितृन् आ वह । किमर्थम् । हविषे हविःस्वीकाराय अत्तवे तस्य च भक्षणाय । आं4 वहेति संबन्धः ॥ सप्तमी॥ घुमन्तस्त्वेधीमहि घुमन्तः समिधीमहि । युमान् द्युमत आ वह पितॄन हुविषे अतवे ॥ ५७ ॥ युऽमन्तः । त्वा । इधीमहि । युऽमन्तः । सम । इधीमहि । युज्मान । चुऽमतः । आ । वह । पितॄन् । हविषे । अत्तवे ॥ ५७ ॥ हे अग्ने घुमन्तः दीप्तिमन्तः 5त्वदनुग्रहाद् अतिशयिततेजसो वयं त्वा त्वां हवामहे । शिष्टं पूर्वमन्त्रवद् योज्यम् ॥ अष्ठमी॥ आङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । PB TETET: I. ABCR tha. We with KŘ V De. PPORT: I. We with Cr. i Sayana's text in , however, is इधीमही. 28ऋद्ध. 39 अनुदिता। स्वधां वा । तामिति &c. instead of अनिदितामिति &c. The words स्वधा ऴा obviously ought to be where we have inserted them. They were perhaps misplaced by the scribe of S. 4 S' omits आ. 5 तदनु