पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अपर्वसंहिताभाष्ये "यमो राजा" [ ब्रा०३.१.२.११] "वरुणो राजा" [ ब्रा०३. ७.७.६] इति श्रुतिषु सर्वत्र प्रसिद्धेः । स्वधया असेमाभिर्देशया मदन्तौ माद्यन्तौ । विद्यते इति शेषः । तत्र लोके यमं देवं पश्यासि पश्यसि वरुणं च देवं पश्यसि । अतः प्रेहीति पूर्वत्रान्वयः ॥ पञ्चमी॥ अपेत वीति वि च सर्पतातोडस्मा एतं पितरो लोकमक्रन । अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥ ५५ ॥ अप । इत । वि। इत । वि । च । सर्पत । अतः । अस्मै। एतम् । पितरः। लोकम् । अक्रन् । अहःऽभिः । अतऽभिः । अक्तुडभिः । विऽअक्तम् । यमः । ददाति । अ- वडसानम् । अस्मै ॥ ५५ ॥ अत्र अनया दहनस्थानं संप्रोक्षेत् इति विनियोगात् तत्स्थानस्थिताना रक्षःपिशाचादीनाम् अपगमनम् अभिधीयते । हे रक्षःप्रभृतयः यूयम् अ. पेत अपगच्छत । वीत । xवी गत्यादिषु । अत्र गतिरर्थः । .वि- गता भवत । अतः अस्माद् दहनस्थानाद् वि सर्पत च विविधं विशे- षेण वा गच्छत । दूरं गच्छतेत्यर्थः । अपसारणीयान् विशिनष्टि । ये अत्रं स्पले पुराणाः पूर्वतनाः स्यं भवथं । ये चं अत्र नूतनाः इदानी- न्तनाः स्य तिष्ठथ । ते सर्वे अपेतेति संबन्धः । अस्मै प्रेताय अहोभिश्च अद्भिः क्षालनसाधनैरुदकैश्च अक्तुभिः अभिव्यक्तिसाधनाभी रात्रिभिश्च व्यक्तम् सुविशदम् अवसानम् अवस्यति अत्रेत्यवसानम् । षो अन्तकर्मणि । अधिकरणे ल्युट् ।स्थानम् । तद् अस्मै यमो देवः ददाति अदात् । तदर्थम् अपेतेति संबन्धः ॥ १Cइतेः1. २ इत। 18' अपसरणीयान्. 2 The text in s', however, rcada acarare fatto कमझन् and not येत्र स्था पुराणा ये च नूतनाः which Sayau appears to have read most- ly in conformity with the Taittirîya îranyuka I. 27. 5.