पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू.१.] ५४० १ अष्टादशं काण्डम्। ष्ठ्यर्थे चतुर्थी । वहतुम् विवाह- कृणोति करोति इति तेन कारणेन इदं विश्वं भुवनम् भूतजातं समेति संगतम् अभूत् । तद्दिदृक्षयेति शेषः । यमस्य देवस्य माता जनयित्री सरण्युः पर्युह्यमाना परिवाहम् उद्वाहं त्व- ष्ट्रा पित्रा क्रियमाणा।वहतेर्यकि यजादित्वात् संप्रसारणम् । म- हः महतः अतिशयितप्रभावस्य विवस्वतः सूर्यस्य जाया सरण्युः ननाश अदर्शनं तिरोधानं प्राप्ता । “अपागूहन्नमृतां मर्त्येभ्यः" [१६.२.३३] इति वक्ष्यमाणत्वात् । अत्र निरुक्तम् । त्वष्टा दुहितुर्वहनं करोतीतीदं सर्वं भुवनं समेति । यमस्य माता पर्युह्यमाना महतो जाया विवस्वतो ननाश । रात्रिरादित्यस्य । आदित्योदयेन्तर्धीयते [नि०१२.११] इति ॥ चतुर्थी ॥ प्रेहि प्रेहि पथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः । उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् ॥ ५४ ॥ प्र। इहि । म । इहि । पथिडभिः । पूःऽयानैः । येन । ते । पूर्वे । पितरः । पराऽइताः। उभा। राजानौ । स्वधया । मदन्तौ । यमम् । पश्यासि । वरुणम् । च । देवम् ॥ ५४॥ अत्र “प्रेहि प्रेहि" इत्यनया प्रेतम् उत्थाप्य शकटे निदध्याद् इति विनियोगात् तस्य शकटं प्रति गमनम् अभिधीयते । हे प्रेत वं प्रेहि प्रेहि प्रगच्छ प्रगच्छ । शकटं प्रतीति शेषः । अथ वा यमलोकं प्रति प्रेहि । द्विरभिधानम् आवश्यकगमनद्योतनाय । कैः साधनैरिति तत्राह । पूर्याणः । यात्यनेनेति यानं वर्त्म । पुमांसो येन वर्त्मना पितृलोकं यान्ति स पूर्याणः । पुंभिः उह्यमानो वा शिबिकादिः पूर्याणः । पृ- षोदरादित्वाद् अयं साधुः ।बहुवचनं पूजार्थम् । तैः [पथिभिः ] प्रेहि । स मार्गो विशेष्यते । येन यानेन ते तव पूर्वे पितरः पितृपि- तामहाद्याः परेताः परागताः पितृलोकं प्राप्ताः ॥ तत्र को लाभ इत्य- त्राह । उभा उभौ राजाना राजानौ देवेषु मध्ये क्षत्रियजातीयौ ।