पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

to अथर्वसंहिताभाष्ये यमस्य । माता। परिऽउह्यमाना। महः । जाया। विवस्वतः । ननाश ॥५३॥ अस्य 1मन्त्रस्य “अपागूहन" [१४.२.३३] इति उपरि वक्ष्यमाणस्य च अर्थविवरणरूपा आख्यायिका बृहद्देवतानुक्रमणिकाकारेण स्पष्टं प्र- दर्शिता । अभवन्मिथुनं त्वष्टुः सरण्यु2त्रिशिराश्च ह । स वै सरण्युं प्रायच्छत् स्वयमेव विवस्वते ॥ ततः सरण्य्वा3 जज्ञाते यमयम्यौ विवस्वतः । तौ चाप्युभौ यमौ स्यातां4 ज्यायांस्ताभ्यां तु वै5 यमः ॥ दृष्ट्वा6 भर्तुः परोक्षं तु सरण्युः सदृ7शीं स्त्रि8यम् । निक्षिप्य तद्युगं8 तस्याम् अश्वा भूत्9वापचक्रमे ॥ अविज्ञाता विवखांस्तु तस्याम् अजनयन्मनुम । राजर्षिरभवत् सोपि विवस्वानिव तेजसा ॥ स विज्ञाय त्वपक्रान्तां सरण्यु त्10विश्वरूपिणीम् । त्वाष्ट्री प्रति जगामाशु 11अश्वो भूत्वा 12सलक्षणः ॥ सरण्युश्च विवस्वन्तं विदित्वा हयरूपिणम् । मैथुनायो13पचक्राम तां चाश्वां14मारुरोह सः॥ ततस्तयोस्तु योगेन शुक्लं15 तद् अपतद् भुवि16 । उपजिघ्रति सा त्वश्वा तच्छुल्लं गर्भकाम्यया17 ॥ आघ्रातमात्राच्छुक्लात्18 तु कुमारौ संबभूवतुः । नासत्य19श्चैव दस्रश्च यौ तु 20तावश्विनाविति ॥ त्वष्टा सिक्तस्य रेतसः पुरुषाद्याकारनिर्माता देव उच्यते । 'यावच्छो वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति" [तै० सं०१.५.९.२] इत्यादि- श्रुतेः । एतन्नामको देवः दुहित्रे स्वदुहितुः पुत्र्याः सरण्यवाः21 । १C मही. 18 गृहस्य for मन्त्रस्य. 2 So S. 38 सरण्या. 4 So S. 58 वैय्यमा. 68 दृष्ट TS सदशां प्रियम्. 88 मिथुतां.98 भूताप. 108 सस्वरुपिणीम्. 118 श्वो for अश्वो. 128 स्वलक्षणः. 135' मैथुनायाप, 14 S चाश्वमारु. 153 तदपि तद्भुषि. 168 तच्छुक्लां. 17S °काम्ययां. 18 °च्छुक्लातु. 108 नासत्यश्वेव. 203 ताविश्वनादिति. The corrections in the quotation are conjectural. 218 सरण्या..